________________
외
외 역외
इदमुक्तं भवति-पुरुषस्य चिद्रूपस्य सदैवाऽधिष्ठातृत्वेन सिद्धस्य यदन्तरङ्गं निर्मलं ज्ञेयं सत्त्वं तस्याऽपि सदैव व्यवस्थितत्वात्तद्येनाऽर्थेनोपरक्तं भवति तथाविधस्य दृश्यस्य चिच्छायासंक्रान्तिसद्भावात् सदा ज्ञातृत्वं सिद्धं भवति ।
परिणामित्वे त्वात्मनश्चिच्छायासङ्क्रमस्याऽसार्वदिकत्वात् सदा ज्ञातृत्वं न स्यादिति । तदि-दमुक्तं- “सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्याऽपरिणामित्वादिति” (योगसूत्र ४१८)।।१३।।
ननु चित्तमेव सत्त्वोत्कर्षाद्यदि प्रकाशकं तदा तस्य 'स्व-परप्रकाशरूपत्वादर्थस्येवाऽऽत्मनोऽपि प्रकाशकत्वेन व्यवहारोपपत्तौ किं ग्रहीवन्तरेणेत्यत आह
स्वाभासं खलु नो चित्तं दृश्यत्वेन घटादिवत् ।
तदन्यदृश्यतायां चानवस्था-स्मृतिसङ्करौ ।।१४।। स्वाभासमिति । चित्तं खलु नो = नैव स्वाभासं = स्वप्रकाश्यं, किं तु द्रष्टुवेद्यं, दृश्यत्वेन = दृग्विषयत्वेन घटादिवत, यद्यद् दृश्यं तत्तद् द्रष्ट्रवेद्यमिति व्याप्तेः । तदिदमुक्तं “न तत्स्वाभासं दृश्यत्वात् (योगसूत्र ४-१९)"। ___ 'अन्तर्बहिर्मुखव्यापारद्वयविरोधात्, तन्निष्पाद्यफलद्वयस्याऽसंवेदनाच्च बहिर्मुखतयैवाऽर्थनिष्ठत्वेन चित्तस्य संवेदनादर्थनिष्ठमेव तत्फलं न स्वनिष्ठमिति (यो.सू.४/१९ रा.मा.) राजमार्तण्डः। १. मुद्रितप्रतौ 'स्वप्रकाश...' इत्यशुद्धः पाठः । २. हस्तादर्श 'तस्वा...' इत्यशुद्धः पाठः ।
파
का
।।१९२।
११/१४
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org