SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पा 의회색의 요괴의석 외 외식 त ञ्ज त्रिं शि का ११/१५ | Jain Education International तथापि चित्तान्तरदृश्यं चित्तमस्त्वित्यत आह- *तदन्यदृश्यतायां च = चित्तान्तरदृश्यतायां च चित्तस्याऽभ्युपगम्यमानायां अनवस्था-स्मृतिसङ्करौ स्याताम् । तथाहि - यदि बुद्धिर्बुद्ध्यन्तरेण वेद्येत तदा साऽपि बुद्धिः 'स्वयमबुद्धा बुद्ध्यन्तरं प्रकाशयितुमसमर्थेति तस्या ग्राहकं बुद्ध्यन्तरं कल्पनीयं, तस्याऽप्यन्यदित्यनवस्थानात् पुरुषायुषः सहस्रेणाऽपि अर्थप्रतीतिर्न स्यात् । न हि प्रतीतावप्रतीतायामर्थः प्रतीतो भवति । तथा स्मृतिसङ्करोऽपि स्यात्, एकस्मिन् रूपे रसे वा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनामुत्पत्तेः २ तज्जनितसंस्कारैर्युगपद् बह्वीषु स्मृतिषूत्पन्नासु 'कस्मिन्नर्थे स्मृतिरियमुत्पन्ना ?' इति ज्ञातुमशक्यत्वात् । तदाह - “एकसमये चोभयाऽनवधारणं ( योगसूत्र ४-२०) । चित्तान्तरदृश्ये' बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्चेति" ( योगसूत्र ४ - २१) ।।१४।। नन्वेवं कथं विषयव्यवहारः ? इत्यत्राऽऽह अङ्गाऽङ्गिभावचाराभ्यां चितिरप्रतिसङ्क्रमा । द्रष्टृ-दृश्योपरक्तं तच्चित्तं सर्वाऽर्थगोचरम् ।। १५ ।। ‘अङ्गे'ति। चितिः = पुरुषरूपा चिच्छक्तिः अङ्गाऽङ्गिभावचाराभ्यां = परिणामपरिणामिभावगमनाभ्यां अप्रतिसङ्क्रमा = अन्येनाऽसङ्कीर्णा । यथा हि गुणाः स्वबुद्धिगमनलक्षणे • ... . इति चिह्नद्वयान्तर्गतः पाठो मुद्रितप्रतौ नास्ति । अस्माभिस्तु हस्तादर्शानुसारेणावश्यकत्वात्स पाठो गृहीतः । १. मुद्रितप्रती 'स्वयं बुद्धया' इत्यशुद्धः पाठः । २ हस्तादर्शे 'स्वजनित..' इति पाठः । ३. हस्तादर्शे '... नवधारणा' इत्यशुद्धः पाठः । ४. 'चित्तान्तराऽदृश्ये' इत्यशुद्धः पाठो मुद्रितप्रतौ । For Private Personal Use Only ।।१९३। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy