SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ F BEF 5 परिणामेऽङ्गिनमुपसङ्क्रामन्ति = 'तद्रूपतामिवाऽऽपद्यन्ते, यथा चा(वा)ऽऽलोकपरमाणवः प्रसरन्तो विषयं व्याप्नुवन्ति, नैवं चितिशक्तिः, तस्याः सर्वदैकरूपतया स्वप्रतिष्ठितत्वेन व्यवस्थितत्वादित्यर्थः। तत = तस्मात चित्सन्निधाने बद्धेस्तदाकारताऽऽपत्तौ चेतनायामिवोपजायमानायां बद्धिवत्ति प्रतिसङ्क्रान्तायाश्च चिच्छक्तेर्बुद्ध्यविशिष्टतया सम्पत्तौ स्वसम्बुद्ध्युपपत्तेरित्यर्थः । द्रष्ट-दृश्योपरक्तं =) द्रष्ट-दश्याभ्यामपरक्तं = द्रष्ट्ररूपतामिवाऽऽपन्नं गृहीतविषयाऽऽकारपरिणामं च चित्तं सर्वाऽर्थगोचरं = सर्वविषयग्रहणसमर्थं भवति । तदुक्तं- "चितेरप्रतिसङ्कमायास्तदाकाराऽऽपत्तौ स्वबुद्धिसंवेदनं (योगसूत्र ४-२२) द्रष्टु-दृश्योपरक्तं चित्तं सर्वार्थं (योगसूत्र ४-२३)"। यथा हि निर्मलं स्फटिकदर्पणाद्येव प्रतिबिम्बग्रहणसमर्थं एवं रजस्तमोभ्यामनभिभूतं सत्त्वं शुद्धत्वाच्चिच्छायाग्रहणसमर्थं, न पुनरशुद्धत्वाद्रजस्तमसी । ततो न्यग्भूतरजस्तमोरूपमङ्गितया सत्त्वं निश्चलप्रदीपशिखाकारं सदैवैकरूपतया परिणममानं चिच्छायाग्रहणसामर्थ्यादाऽऽमोक्षप्राप्तेरवतिष्ठते । यथाऽयस्कान्तसन्निधाने लोहस्य चलनमाविर्भवति, एवं चिद्रूपपुरुषसन्निधाने सत्त्वस्याऽ-भिव्यङ्ग्यमभिव्यज्यते चैतन्यमिति ।।१५।। इत्थं च द्विविधा चिच्छक्तिरित्याह - नित्योदिता त्वभिव्यङ्ग्या चिच्छक्तिर्द्विविधा हि नः । १. हस्तादर्श 'दूप...' इति त्रुटितः पाठः । २. हस्तादर्श 'सर्वदैवेक...' इत्यशुद्धः पाठः । ३. हस्तादर्श '....कारपत्तौ' इत्यशुद्धः पाठः । ||१९४| ११/१५ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy