SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ जभA AA आद्या पुमान् द्वितीया तु सत्त्वे तत्सन्निधानतः।।१६।। "नित्येति । नित्योदिता, तु = पुनः अभिव्यङ्ग्या । द्विविधा हि नः = अस्माकं चिच्छक्तिः। आद्या = नित्योदिता पुमान् = पुरुष एव । द्वितीया = अभिव्यङ्ग्या तु तत्सन्निधानतः = पुंसः सामीप्यात् सत्त्वे = सत्त्वनिष्ठा । यद् भोजः- “अत एवाऽस्मिन् दर्शने द्वे चिच्छक्ती' नित्योदिता अभिव्यङ्ग्या च । नित्योदिता चिच्छक्तिः पुरुषः, तत्सन्निधानाऽभिव्यक्त्या अभिव्यङ्यचैतन्यं सत्त्वं = अभिव्यङग्या चिच्छक्तिरिति” (राजमार्तण्ड ४/२३) ।।१६।। इत्थं च भोगोपपत्तिमप्याह सत्त्वे पुंस्थितचिच्छायासमाऽन्या' तदुपस्थितिः । प्रतिबिम्बात्मको भोगः पुंसि ५भेदाग्रहादयम् ॥१७॥ सत्त्व इति । सत्त्वे = बुद्धेः सात्त्विकपरिणामे पुंस्थिता या चिच्छाया तत्समा (=पुंस्थितचिच्छायासमा) या अन्या सा 'स्वकीयचिच्छाया (तदुपस्थितिः=) तस्या उपस्थितिः = अभिव्यक्तिः प्रतिबिम्बात्मको भोगः । अन्यत्राऽपि हि प्रतिबिम्बे (आदर्श) प्रतिबिम्ब्यमानच्छायासदृशच्छायान्तरोद्भव एव प्रतिबिम्बशब्देनोच्यते । पुंसि पुनः अयं = भोगो भेदाऽग्रहात = अत्यन्तसान्निध्येन विवेकाऽग्रहणाद व्यपदिश्यते । १. मुद्रितप्रती 'चिच्क्ती' इत्यशुद्धः पाठः । २. ....भिष्वंगं चैतन्यमि'त्यशुद्धः पाठो मुद्रितप्रती । ३. हस्तादर्श 'सामान्य' इत्यशुद्धः पाठः । ४. हस्तादर्श '...त्मगो' इत्यशुद्धः पाठः । ५. हस्तादर्श 'भदाग्रहोदयां' इत्यशुद्धः पाठः । ६. हस्तादर्श 'स्वकीकय...' इत्यशुद्धः पाठः । (।।१९५।। १/१७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy