________________
____ यत्तु “व्यापकस्याऽतिनिर्मलस्य चाऽऽत्मनः कथं सत्त्वे प्रतिबिम्बनमिति” तन्न, व्यापक स्याप्याकाशस्य दर्पणादावपकृष्टनैर्मल्यवति च जलादावादित्यादीनां प्रतिबिम्बदर्शनात्, स्वस्थितचिच्छायासदृशचिच्छायाऽभिव्यक्तिरूपस्य प्रतिबिम्बस्य प्रतिबिम्बान्तरवैलक्षण्याच्चेति (राजमार्तण्ड-४/२३) भोजः ।।१७।।
इत्थं प्रत्यात्मनियतं बुद्धितत्त्वं हि शक्तिमत् ।
निर्वाहे लोकयात्रायास्ततः क्वाऽतिप्रसञ्जनम् ।।१८।। ___'इत्थमिति । इत्थं = उक्तप्रकारेण प्रत्यात्मनियतं = आत्मानमात्मानं प्रति नियतफलसम्पादकं बुद्धितत्त्वं हि लोकयात्रायाः = लोकव्यवहारस्य निर्वाहे = व्यवस्थापने शक्तिमत् = समर्थम् । ततः क्वाऽतिप्रसञ्जनं = योगादेकस्य मुक्तावन्यस्याऽपि मुक्त्यापत्तिरूपम् ? प्रकृतेः सर्वत्रैकत्वेऽपि बुद्धिव्यापारभेदेन भेदोपपत्तेः । तथा च सूत्रं-“कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वादिति” (योगसूत्र २-२२) ।।१८।। __यच्चोक्तं 'जडायाश्च पुमर्थस्ये'त्यादि तत्राऽऽह
कर्तव्यत्वं पुमर्थस्याऽऽनुलोम्य-प्रातिलोम्यतः।
प्रकृतौ परिणामानां शक्ती स्वाभाविके उभे ॥१९॥ कर्तव्यत्वमिति । पुमर्थस्य कर्तव्यत्वं = प्रकृतौ परिणामानां महदादीनां आनुलोम्य१. मुद्रितप्रतौ 'सदृशचिच्छाया' पदं नास्ति ।
१९६।
११/१९||
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org