________________
F BEFFER
। प्रातिलोम्यत उभे शक्ती• स्वाभाविके' = तत्त्वतः स्वभावसिद्धे, पुमर्थे सतीति शेषः । ॥
न त्वन्यत् । ___ महदादि-महाभूतपर्यन्तः खल्वस्या बहिर्मुखतयाऽनुलोमः परिणामः, पुनः स्वकारणाऽनुप्रवेश| द्वारेणाऽस्मितान्तः प्रतिलोमः परिणामः । ___इत्थं च पुरुषस्य भोगपरिसमाप्तेः सहजशक्तिद्वयक्षयात् कृतार्था प्रकृतिः, न पुनः परिणाममारभते । एवंविधायां च पुरुषार्थकर्तव्यतायां प्रकृतेर्जडत्वेन कर्तव्याऽध्यवसायाऽभावेऽपि न काचिदनुपपत्तिरिति ।।१९।।।
ननु यदि प्रतिलोमशक्तिरपि सहजैव प्रधानस्याऽस्ति तत्किमर्थं योगिभिर्मोक्षार्थं यत्नः | क्रियते ? मोक्षस्य चाऽनर्थनीयत्वे तदुपदेशकशास्त्रस्याऽऽनर्थक्यमित्यत आह -
न चैवं मोक्षशास्त्रस्य वैयर्थं प्रकृतेर्यतः ।
ततो दुःखनिवृत्त्यर्थं कर्तृत्वस्मयवर्जनम् ।।२०।। ____न चेति । न चैवं = मुक्तौ प्रकृतेरेव सामर्थ्ये मोक्षशास्त्रस्य वैयर्थ्यं = आनर्थक्यं, यतः = यस्मात् ततः = मोक्षशास्त्राद् दुःखनिवृत्त्यर्थं = दुःखनाशाय प्रकृतेः = प्रधानस्य कर्तृत्वस्मयस्य = कर्तृत्वाऽभिमानस्य वर्जनं = निवृत्तिर्भवति (=कर्तृत्वस्मयवर्जन) । अनादिरेव ।।१९७ ... चिह्नद्वयमध्यगतः पाठो हस्तादर्श नास्ति । १. हस्तादर्शविशषे 'स्वाभाविके' इति पदं नास्ति । २. हस्तादर्श '...स्वस्या....' इत्यशुद्धः पाठः । ३. हस्तादर्श 'अन...' इत्यशुद्धः पाठः ।
११/२०
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org