________________
हि प्रकृतिपुरुषयोर्भोक्तृ-भोग्यभावलक्षणः सम्बन्धः ।
तस्मिन् सति व्यक्तमचेतनायाः प्रकृतेः कर्तृत्वाऽभिमानाद् दुःखाऽनुभवे सति ‘कथमियं दुःखनिवृत्तिरात्यन्तिकी मम स्यादिति भवत्येवाऽध्यवसायः। अतो दुःखनिवृत्त्युपायोपदेशकशास्त्रोपदेशाऽपेक्षाऽप्यस्य युक्तिमतीति ।।२०।।
व्यक्तं कैवल्यपादेऽदः सर्वं साध्विति चेन्न तत् ।
इत्थं हि प्रकृतेर्मोक्षो न पुंसस्तददो' वृथा ।।२१।। _ 'व्यक्तमिति । कैवल्यपादे = योगानुशासनचतुर्थपादे अदः = 'एतत् व्यक्तं = प्रकटं सर्वं = अखिलं साधु = निर्दोषमिति । समाधत्ते- इति चेत् ? न तत् यत् प्राक् प्रपञ्चितम् । (इत्थं) हि = यत एवमुक्तरीत्या प्रकृतेर्मोक्षः स्यात्, तस्या एव कर्तृत्वाभिमाननिवृत्त्या दुःखनिवृत्त्युपपत्तेः, न पुंसस्तस्याऽबद्धत्वेन मुक्त्ययोगात्, मुचेर्बन्धनविश्लेषाऽर्थत्वात् । तत् = तस्माद् अदः = वक्ष्यमाणं भवद्ग्रन्थोक्तं वृथा कण्ठशोषमात्रफलम् ।।२१।।
पञ्चविंशतितत्त्वज्ञो यत्र तत्राऽऽश्रमे रतः ।
जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः ॥२२॥
पञ्चविंशतीति । अत्र हि पञ्चविंशतितत्त्वज्ञानात् पुरुषस्यैव मुक्तिरुक्ता सा च न ११/२२॥ १. हस्तादर्श .....ददोधा' इत्यशुद्धः पाठः । २. हस्तादर्श 'तत्' इत्यशुद्धः पाठः । ३. हस्तादर्श 'रीत्या' पदं
नास्ति । ४. हस्तादर्श 'त्युपपात्र' इत्यशुद्धः पाठः ।
१९८।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org