________________
역 외의 외
외
। सम्भवतीति । न च भोगव्यपदेशवन्मुक्तिव्यपदेशोऽप्युपचारादेव पुंसि सम्भवतीति वाच्यम्,
एवं हि तत्र चैतन्यस्याप्युपचारेण सुवचत्वाऽऽपत्तेः ।
'बाधकाऽभावान्न तत्र तस्योपचार' इति चेत् ? तत्र कृत्यादिसामानाधिकरण्यस्याऽप्यनुभूयमानस्य किं बाधकम् ? येन तेषां भिन्नाऽऽश्रयत्वं कल्प्यते ।
'आत्मनः परिणामित्वाऽऽपत्तिर्बाधिके'ति चेत् ? न, तत्परिणामित्वेऽप्यन्वयाऽनपायात् । अन्यथा चित्तस्याऽपि तदनापत्तेः, प्रतिक्षणं चित्तस्य नश्वरत्वोपलब्धेः । ___ 'अतीताऽनागतं स्वरूपतोऽस्त्यध्वभेदो धर्माणां (यो.सू. ४-१२) ते व्यक्तसूक्ष्मा गुणात्मानः (यो.सू. ४-१३) परिणामैकत्वाद्वस्तुतत्त्वमिति (यो.सू. ४-१४) सूत्रपर्यालोचनाद् धर्मभेदेऽपि तेषामङ्गाऽङ्गिभावपरिणामैकत्वान्न चित्ताऽनन्वय इति चेत् ? तदेतदात्मन्येव पर्यालोच्यमानं शोभते । कूटस्थत्वश्रुतेः शरीरादिभेदपरत्वेनाप्युपपत्तेरिति सम्यग्विभावनीयम् ।।२२।। किं च -
बुद्ध्या सर्वोपपत्तौ च मानमात्मनि मृग्यते ।
संहत्यकारिता मानं पारार्थ्यनियता च न ॥२३॥ बुद्ध्येति । बुद्ध्या = महत्तत्त्वेन सर्वोपपत्तौ = सकललोकयात्रानिर्वाहे च सति
...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. मुद्रितप्रतौ 'व्यक्तसूक्ष्मगुणात्मन' इति पाठः । २. हस्तादर्श ११/२३||
'..भावपरिणामपरिणामैक..' इत्यधिकः पाठः । ३. हस्ताद” 'नानन्वय' इति पाठः । ४. हस्ताद” 'नियातानि च' इत्यशुद्धः पाठः ।
교
|
.. ||१९९।
का
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org