SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पा त ञ्ज 35 hos da ल ग ल क्ष ण द्वा त्रिं शि का ११/२४| Jain Education International आत्मनि मानं = प्रमाणं मृग्यते । कृत्याद्याश्रयव्यतिरिक्ते आत्मनि प्रमाणमन्वेषणीयमित्यर्थः । न च पारार्थ्यनियता = परार्थकत्वव्याप्या संहत्यकारिता = सम्भूयमिलिताऽर्थक्रियाकारिता मानं = अतिरिक्तात्मनि प्रमाणम् । यत्संहत्याऽर्थक्रियाकारि तत्परार्थं द्रष्टं यथा शय्याशयनाऽऽसनाद्यर्थाः। सत्त्वरजस्तमांसि च चित्तलक्षणपरिणामभाञ्जि संहत्यकारीणि । अतः परार्थानि । यश्च परः स पुरुष इति । तदुक्तं - “ तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वादिति” ( योगसूत्र ४ - २४ ) ।। २३ ।। कुत इत्याह 1 सत्त्वादीनामपि स्वाङ्गिन्युपकारोपपत्तितः । बुद्धिर्नामैव पुंस्तत् स्याच्च तत्त्वान्तरव्ययः । । २४ ॥ = " सत्त्वादीनामिति । सत्त्वादीनां धर्माणां स्वाङ्गिन्यपि स्वाऽऽश्रयेऽपि । उपकारोपपत्तितः : = फलाऽऽधानसम्भवाद्, उक्तनियमे मानाभावात्, सत्त्वादौ संहत्यकारित्वस्य विलक्षणत्वात् । अन्यथा असंहतरूपपराऽसिद्धेः, धर्माणां साश्रयत्वव्याप्तेश्च बुद्ध्यैव सफलत्वात् नैवमात्मा कश्चिदतिरिक्तः सिध्येदिति भावः । तत् | = तस्माद् बुद्धिः पुंसः = पुरुषस्य एव नाम स्यात् । च = पुनः तत्त्वाऽन्तरव्ययः १. मुद्रितप्रतौ 'चित्तमपि' इत्यशुद्धः पाठः । २ हस्तादर्शे 'बुद्धिनेर्मैव' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'पुंसि' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'सत्त्वादीनामिति' इति पदं नास्ति । ५. मुद्रितप्रतौ 'स्वांगिन्पपि' इत्यशुद्धः पाठः । ६. 'च'शब्दो मुद्रितप्रतौ नास्ति परं मूलादर्शे विद्यते, आवश्यकश्चेत्यस्माभिः गृहीतः । For Private & Personal Use Only ।।२०० www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy