SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ F BEF [ = अहंकारादितत्त्वोच्छेदः स्यात् ।।२४।। तथाहि - व्यापारभेदादेकस्य वायोः पञ्चविधत्ववत् । अहङ्कारादिसंज्ञानोपपत्तिसुकरत्वतः ।।२५।। व्यापारेति । एकस्य वायोापारभेदाद् = ऊर्ध्वगमनादिव्यापारभेदात् 'पञ्चविधत्ववत् = ‘पञ्च वायवः प्राणाऽपानादिभेदादिति व्यपदेशवत् (अहङ्कारादिसंज्ञानोपपत्तिसुकरत्वतः=) अहङ्कारादिसंज्ञानानामुपपत्तेः सुकरत्वतः = सौकर्यात् । तथाहि- बुद्धिरेवाहङ्कारव्यापारं 'जनयन्ती अहङ्कार इत्युच्यताम् । सैव च प्रसुप्तस्वभावा साधिकारा प्रकृतिरिति व्यपदिश्यताम् । किमन्तर्गडुतत्त्वान्तरपरिकल्पनयेति ।।२५।। पुंसश्च व्यञ्जकत्वेऽपि कूटस्थत्वमयुक्तिमत् । अधिष्ठानत्वमेतच्चेत्तदेत्यादि निरर्थकम् ॥२६॥ "पुंसश्चेति । पुंसः = पुरुषस्य च व्यञ्जकत्वेऽपि अभ्युपगम्यमाने कूटस्थत्वं अयुक्तिमद् = असङ्गतम् । अभिव्यञ्जकत्वं ह्यभिव्यक्तिजनकत्वम् । तथा च “अकारणमकार्य ||२०१ १. हस्तादर्श 'तत्त्वव्यवच्छेद' इति पाठः । २. हस्तादर्श 'तथात्' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ |२४||' इत्यशुद्धा सङ्ख्या मुद्रिता । ४. 'पंवि...' इत्यशुद्धः पाठो हस्तादर्श । ५. हस्तादर्श 'जयन्ती' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ 'पुंत' इत्यशुद्धः पाठः । ७. 'अपि' शब्दो मुद्रितप्रतौ नास्ति । ८. हस्तादर्श ..स्थलं' इत्यशुद्धः ११/२६॥ पाठः । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy