________________
पा
त
ञ्ज
35 has da
ल
यो
ल
क्ष
ण
द्वा
त्रिं
शि
का
११/२७
Jain Education International
च पुरुष" ( ) इति वचनं व्याहन्येतेति भावः । 'अधिष्ठानत्वं = अभिव्यक्तिदेशाऽऽश्रयत्वं 'एतद् = व्यञ्जकत्वं पुरुषस्तु सदैकरूप' इति चेत् ? तर्हि तदेत्यादि “ तदा द्रष्टुः स्वरूपावस्थानमिति” ( योगसूत्र १ - ३) सूत्रं निरर्थकं तदेत्यस्य व्यवच्छेद्याऽभावात् । काल्पनिकत्वे चैतद्विषयस्य घटादिव्यवहारविषयस्याऽपि तथात्वाऽऽपत्तौ शून्यवादिमतप्रवेश इति भावः ||२६||
निमित्तत्वेऽपि कौटस्थ्यमथास्यापरिणामतः ।
स्याद् भेदो धर्मभेदेन तथापि भवमोक्षयोः ।। २७।।
=
'निमित्तत्वे 'ति । अथ अस्य = आत्मनो निमित्तत्वेऽपि सत्त्वनिष्ठामभिव्यङ्ग्यां चिच्छक्तिं प्रति अपरिणामतः परिणामाऽभावात् कौटस्थ्यम् । 'अकारणमित्यस्यानुपादानकारणमित्यर्थात् उपादानकारणस्यैव परिणामित्वात् परिणामस्य चावस्थान्तरगमनलक्षणत्वादिति भावः ।
तथापि भवमोक्षयोः = संसाराऽपवर्गयोः धर्मभेदेन = भोगनिमित्ताऽनिमित्तत्व धर्मभेदेन कथञ्चिद् भेद आवश्यकः ।
=
मोक्षेऽपि पूर्वस्वभावसत्त्वे कारणान्तराभावान्न भोग इति को भेद इति चेत् ? सौम्य ! कथं तर्हि न भवमोक्षोभयस्वभावे विरोध: ? । उभयैकस्वभावत्वान्नाऽयमिति १. हस्तादर्शे ‘अतद्’ इत्यशुद्धः पाठः । २. हस्तादर्शे 'तद्रा' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'पनि' इत्यशुद्धः पाठ: । ४. हस्तादर्श 'निमित्वध...' इत्यशुद्धः पाठः ।
स्यात्
For Private & Personal Use Only
।।२०२।
www.jainelibrary.org