SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ 외 최 외 역 외 ।। चेद्? भङ्ग्यन्तरेणाऽयमेव स्याद्वाद इति किं वृथा खिद्यसे? ।।२७।। प्रसङ्गतादवस्थ्यं च बुद्धर्भेदेऽपि तत्त्वतः । प्रकृत्यन्ते लये मुक्तेन चेदव्याप्यवृत्तिता ।।२८।। । प्रसङ्गेति । बुद्धे देऽपि = प्रत्यात्मनियतत्वेऽप्यभ्युपगम्यमाने (च) तत्त्वतः = परमार्थतः प्रकृत्यन्ते = प्रकृतिविश्रान्ते लये = दुःखध्वंसे सति प्रसङ्गतादवस्थ्यं = एकस्य मुक्तावन्यस्याऽपि तदापत्तिरित्यस्याऽपरिहार एव, प्रकृतेरेव मुक्तेरभ्युपगम्यमानत्वात्, तस्याश्च मुक्तत्वाऽमुक्तत्वोभयविरोधात् ।। ___एकत्र वृक्षे संयोग-तदभावयोरिव प्रकृतौ विभिन्नबुद्ध्यवच्छेदेन न मुक्तत्वाऽमुक्तत्वयोर्विरोध इत्यत आह- चेद् = यदि मुक्तेरव्याप्यवृत्तिता न 'अभ्युपगम्यत' इति शेषः । तदभ्युपगमे च मुक्तेऽप्यमुक्तत्वव्यवहाराऽऽपत्तिरेव दूषणम् । किं चैवं मुक्तस्याप्यात्मनो भवस्थशरीराऽवच्छेदेन भोगाऽऽपत्तिरिति तत्प्रकृतिनिवृत्तिरवश्यमभ्युपेयेति द्रष्टव्यम् ।।२८।। प्रधानभेदे चैतत्स्यात् कर्म 'बुद्धिगुणः पुमान् । स्याटुवश्चाऽध्रुवश्चेति जयताज्जैनदर्शनम् ॥२९॥ 'प्रधाने'ति । उक्तदोषभिया प्रधानभेदे चाऽभ्युपगम्यमाने आत्मभोगाऽपवर्गनिर्वाहकं ११/२९|| १. हस्ताद” ...दवस्थ्या' इत्यशुद्धः पाठः । २. हस्तादर्श 'स्याक...' इति त्रुटितः पाठः । ३. हस्तादर्श 'बुद्धिः गु..' इत्यशुद्धः पाठः । 화 का ॥२०३।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy