________________
पा
त
ञ्ज
ल
3 ho
ग
ल
क्ष
ण
द्वा
त्रिं
शि
का
११/३१
Jain Education International
तत् कर्म स्यात् ।
=
पुमान् = पुरुषः बुद्धिगुणः स्यात्, बुद्ध्युप लब्धि - ज्ञानानामनर्थान्तरत्वात् । स्यात् = कथञ्चित् ध्रुवश्च द्रव्यतः, अध्रुवश्च पर्यायत इति एवं जैनदर्शनं जयतात्, दोषलवस्याऽप्यस्पर्शात् । ननु च पुंसो विषयग्रहणसमर्थत्वेनैव चिद्रूपत्वं व्यवतिष्ठत इति विकल्पात्मकबुद्धिगुणत्वं न युक्तं, अन्तर्बहिर्मुखव्यापारद्वयविरोधादिति चेत् ? न, अनुभूयमानक्रमिकैकोपयोगस्वभावत्वेन तदविरोधादिति ।। २९ ।। तथा च कायरोधादावव्याप्तं प्रोक्तलक्षणम् ।
एकाग्रतावधौ रोधे वाच्ये च प्राचि चेतसि ।। ३० ।।
तथा चेति । तथा च = जैनदर्शनजयसिद्धौ च प्रोक्तलक्षणं = पतञ्जल्युक्तयोगलक्षणं कायरोधादावव्याप्तं, आदिना वाग्निरोधादिग्रहः । एकाग्रतावधौ = एकाग्रतानिरोधमात्रसाधारणे च रोधे वाच्ये प्राचि = एकाग्रतायाः पृष्ठभाविनि चेतसि = अध्यात्मादिशुद्धे अव्याप्तम्
113011
योगारम्भोऽथ विक्षिप्ते व्युत्थानं क्षिप्त- मूढयोः ।
एकाग्रे च निरुद्धे च समाधिरिति चेन्न तत् ।। ३१ ।। 'योगे'ति । अथ विक्षिप्ते चित्ते योगाऽऽरम्भः क्षिप्तमूढयोः चित्तयोः व्युत्थानं । १. मुद्रितप्रती 'बुद्धिलब्धि' इति पाठः । २ हस्तादर्शे 'व्यव्याप्तं' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
||२०४ |
www.jainelibrary.org