________________
육 외 ᄏ 역 외의 4
। एकाग्रे च निरुद्धे च चित्ते समाधिरिति एकाग्रतापृष्ठभाविनश्चित्तस्याऽलक्ष्यत्वादेव न
तत्राऽव्याप्तिः । क्षिप्तं हि रजस उद्रेकादस्थिरं बहिर्मुखतया सुख-दुःखादिविषयेषु' कल्पितेषु सन्निहितेषु वा रजसा प्रेरितम् । तच्च सदैव दैत्य-दानवादीनाम् ।
मूढं = तमस उद्रेकात् कृत्याऽकृत्यविभागाऽसङ्गतं क्रोधादिभिर्विरुद्धकृत्येष्वेव नियमितम् । तच्च सदैव रक्षःपिशाचादीनाम् । विक्षिप्तं तु सत्त्वोद्रेकात् परिहृतदुःखसाधनेष्वेव शब्दादिषु प्रवृत्तम् । तच्च सदैव देवानाम् ।
एतास्तिस्रश्चित्तावस्था न समाधावुपयोगिन्यः । एकाग्रता-निरुद्धरूपे द्वे एव सत्त्वोत्कर्षाद्यथोत्तरमवस्थितत्वाच्च समाधावुपयोगं भजेते इति चेत् ? न तत् ।।३१।।
योगारम्भेऽपि योगस्य निश्चयेनोपपादनात् ।।
मदुक्तं लक्षणं तस्मात्परमानन्दकृत् सताम् ।।३२॥ 'योगे'ति । योगाऽऽरम्भेऽपि = योगप्रारम्भकालेऽपि निश्चयेन = निश्चयनयेन योगस्योपपादनाद् = व्यवस्थापनात्, ‘क्रियमाणं कृतमिति तदभ्युपगमात् ।
आद्यसमये तदनुत्पत्तावग्रिमसमयेष्वपि तदनुत्पत्त्यापत्तेः।
वस्तुतो योगविशेषप्रारम्भकालेऽपि कर्मक्षयरूपफलाऽन्यथाऽनुपपत्त्या व्यवहारेणाऽपि योग- सामान्यसद्भावोऽवश्याभ्युपेय इति प्रागुक्ताव्याप्तिर्वज्रलेपायितैव । १. हस्तादर्श 'विधये' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्रागुक्तातिव्या...' इत्यशुद्धः पाठः ।
쩍
का
२०५
११/३२||
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org