________________
तस्मान्मदुक्तं लक्षणं 'मोक्षमुख्यहेतुव्यापार' इत्येवं रूपं सतां = व्युत्पन्नानां अदुष्टत्वप्रतिपत्तिद्वारा परमानन्दकृत् ।।३२ ।।
।। इति पातञ्जलयोगलक्षणविचारद्वात्रिंशिका ।।११।।
॥ अथ पूर्वसेवाद्वात्रिंशिका ।।१२।। इत्थं विचारितलक्षणस्य योगस्य प्रथमोपायभूतां पूर्वसेवामाह →
'पूर्वसेवा तु योगस्य गुरुदेवादिपूजनम् ।
सदाचारस्तपो मुक्त्यद्वेषश्चेति प्रकीर्तिता' ।।१।। पूर्वसेवा त्विति । 'स्पष्टः ।।१।।
माता पिता कलाचार्य एतेषां ज्ञातयस्तथा ।
वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ।।२।। 'माते'ति । वृद्धाः श्रुत-वयोवृद्धलक्षणाः । गुरुवर्गः = 'गौरव्यलोकसमुदायः ।।२।।
पूजनं चाऽस्य नमनं त्रिसन्ध्यं पर्युपासनम् ।
अवर्णाऽश्रवणं नामश्लाघोत्थानाऽऽसनाऽर्पणे ।।३।। १. हस्तादर्श 'पूर्वस्यै' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ .र्तिताः' इति पाठः । ३. हस्तादर्श 'स्पष्टः' इति पदं नास्ति। ४. मुद्रितप्रतौ ‘गौरववल्लो...' इत्यशुद्धः पाठः ।
||२०६
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org