SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पूजनमिति । नमनं, कदाचिद् द्रव्यतः तदभावेऽपि भावतो मनस्यारोपणेन । नाम्नः श्लाघा स्थानाऽस्थानग्रहणाऽग्रहणाभ्यां । उत्थानाऽऽसनाऽर्पणे = अभ्युत्थानाऽऽसनप्रदाने आगतस्येति गम्यम् ।।३।। सर्वदा तदनिष्टेष्टत्यागोपादाननिष्ठता । स्वपुमर्थमनाबाध्य साराणां च निवेदनम् ।।४।। सर्वदेति । स्वपुमर्थ = धर्मादिकं अनाबाध्य = अनतिक्रम्य । यदि च तदनिष्टेभ्यो निवृत्तौ तदिष्टेषु च प्रवृत्तौ• धर्मादयः पुरुषार्था बाध्यन्ते तदा न तदनुवृत्तिपरेण भाव्यम् । किं तु पुरुषाऽर्थाऽऽराधनपरेण, अतिदुर्लभत्वात् पुरुषार्थाऽऽराधनकालस्येत्यर्थः । साराणां = उत्कृष्टानामलङ्कारादीनां निवेदनं = समर्पणम् ।।४।। तद्वित्तयोजनं तीर्थे तन्मृत्यनुमतेर्भिया । तदासनाद्यभोगश्च तबिम्बस्थापनाऽर्चने ।।५।। ___तद्वित्तेति । तद्वित्तस्य गुरुवर्गाऽलङ्काराऽऽदिद्रव्यस्य योजनं = नियोगः (=तद्वित्तयोजन) तीर्थे देवताऽऽयतनादौ, तन्मृत्यनुमतेः तन्मरणाऽनुमोदनाद् भिया = भयेन' (=तन्मृत्यनुमतिभिया)। तत्सङ्ग्रहे तन्मरणाऽनुमतिप्रसङ्गात् । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. मुद्रितप्रतौ 'बाधन्ते' इत्यशुद्धः पाठः । २. हस्तादर्श 'भये' इति त्रुटितः पाठः । ।।।२०७।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy