SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 44, oh q 2 तस्य आसनादीनां = आसन-शयन-भोजन-पात्रादीनां अभोगः = अपरिभोगः (=तदासनाद्य| भोगः च) । (तबिम्बस्थापनार्चने=) तबिम्बस्य स्थापनाऽर्चने = विन्यासपूजे ।।५।। देवानां पूजनं ज्ञेयं शौच-श्रद्धादिपूर्वकम् । पुष्पैर्विलेपनैधूपैर्नैवेद्यैः शोभनैः स्तवैः ।।६।। 'देवानामिति- व्यक्तः ।।६।। अधिमुक्तिवशान्मान्या अविशेषेण वा सदा । अनिर्णीतविशेषाणां सर्वे देवा महात्मनाम् ॥७॥ अधिमुक्तीति । अनिर्णीतः कुतोऽपि मतिमोहादनिश्चितो विशेषः = इतरदेवताऽपेक्षोऽतिशयो यैस्तेषां (=अनिर्णीतविशेषाणां) महात्मनां = परलोकसाधनप्रधानतया प्रशस्तात्मनां गृहिणां सर्वे देवाः सदाऽविशेषेण पारगत-हरि-हर-हिरण्यगर्भादिसाधारणवृत्त्या मान्याः वा = अथवा अधिमुक्तिवशात् = अतिशयितश्रद्धाऽनुसारेण ।।७।। सर्वान् देवान्नमस्यन्ति नैकं देवं समाश्रिताः । जितेन्द्रिया जितक्रोधा 'दुर्गाण्यतितरन्ति ते ॥८॥ 'सर्वानि'ति । सर्वान् देवान् नमस्यन्ति = नमस्कुर्वते । नैकं कञ्चन देवं समाश्रिताः १. हस्तादर्श 'दुर्गाण्यतितेत..' इत्यशुद्धः पाठः । २. हस्तादर्श 'कुर्वतो' इत्यशुद्धः पाठः । ३. हस्तादर्श '...श्रितः' इत्यशुद्धः पाठः। १२/८ ।।२०८ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy