________________
' = स्वमत्यभिनिवेशेन प्रतिपन्नवन्तः । जितेन्द्रिया = निगृहीतहृषीकाः, जितक्रोधाः =
अभिभूतकोपाः दुर्गाणि = नरकपातादीनि व्यसनानि अतितरन्ति = अतिक्रामन्ति ते = सर्वदेवनमस्कर्तारः ।।८।। ननु सर्वेऽपि न मुक्तिप्रदायिन इति कथमविशेषेण नमस्करणीयाः ? इत्यत आह
चारिसञ्जीविनीचारन्यायादेवं फलोदयः ।
मार्गप्रवेशरूपः स्याद्विशेषेणाऽऽदिकर्मणाम् ।।९।। 'चारी'ति । चारिसज्जीविनीचारन्यायात् = प्रागुपदर्शितात् एवं = सर्वदेवनमस्कारेऽनुषङ्गत इष्टप्राप्तौ, तत एव शुभाऽध्यवसायविशेषात् मार्गप्रवेशरूपः शुद्धदेवभक्त्यादिलक्षणः फलोदयः स्यात् । विशेषेण = अनुषगप्राप्तवीतरागगुणाऽऽधिक्यपरिज्ञानेन आदिकर्मणां = प्रथममेवाऽऽरब्धस्थूलधर्माचाराणाम् । ते ह्यत्यन्तमुग्धतया कञ्चन देवताविशेषमजानाना विशेषवृत्तेरद्याऽपि न योग्याः, किं तु सामान्यरूपाया एवेति ।।९।।
अधिज्ञातविशेषाणां विशेषेऽप्येतदिष्यते ।
स्वस्य वृत्तविशेषेऽपि परेषु द्वेषवर्जनात् ॥१०॥ 'अधी'ति । अधिज्ञातो विशेषो = गुणाधिक्यं यैस्तेषां (=अधिज्ञातविशेषाणां) विशेषेऽपि अर्हदादौ एतत् पूजनं इष्यते । 'परेषु = पूज्यमानव्यतिरिक्तेषु । द्वेषस्य = मत्सरस्य वर्जनात् १. हस्ताद” 'पदेषु' इत्यशुद्धः पाठः ।
१२/१०
॥२०९।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org