SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ (=द्वेषवर्जनात्), स्वस्य = आत्मनः वृत्तविशेषेऽपि = आचाराऽऽधिक्येऽपि सति देवतान्तराणि प्रतीत्य ।।१०।। नाऽऽतुराऽपथ्यतुल्यं यद्दानं तदपि चेष्यते । पात्रे दीनादिवर्गे च पोष्यवर्गाऽविरोधतः ॥११॥ 'नेति । यद् आतुराऽपथ्यतुल्यं = ज्वरादिरोगविधुरस्य घृतादिदानसदृशं मुशलादिदानं दायक-ग्राहकयोरपकारि न भवति तद्दानमपि चेष्यते पात्रे दीनादिवर्गे च = पोष्यवर्गस्य मातापित्रादिपोषणीयलोकस्य अविरोधतो = वृत्तेरनुच्छेदात् (=पोष्यवर्गाऽविरोधतः) ।।११।। लिङगिनः पात्रमपचा विशिष्य स्वक्रियाकतः। दीनाऽन्ध-कृपणादीनां वर्गः कार्याऽन्तराऽक्षमः ।।१२।। लिङ्गिन इति । लिङ्गिनो = व्रतसूचकतथाविधनेपथ्यवन्तः सामान्यतः पात्रं आदिधार्मिकस्य । विशिष्य = विशेषतः अपचाः स्वयमपाचकाः, उपलक्षणात् परैरपाचयितारः पच्यमानाऽननुमन्तारश्च । स्वक्रियाकृतः = स्वशास्त्रोक्ताऽनुष्ठानाऽप्रमत्ताः । तदुक्तं- “व्रतस्था लिङ्गिनः पात्रम पचास्तु विशेषतः । स्वसिद्धान्ताऽविरोधेन वर्तन्ते ये सदैव हि।।” (योगबिन्दु १२२) दीनाऽन्ध-कृपणादीनां वर्गः = समुदायः कार्यान्तराऽक्षमो = भिक्षाऽतिरिक्तनिर्वाहहेतुव्यापाराऽसमर्थः । यत उक्तं- “दीनान्धकृपणा ये तु व्याधिग्रस्ता विशेषतः । निःस्वाः क्रियान्तराऽशक्ता १. मुद्रितप्रतौ 'लिंगन...' इत्यशुद्धः पाठः । २. हस्ताद” 'पचासु' इत्यशुद्धः पाठः । ३. हस्तादर्श ...षस्तु' इति पाठः । १२/१२ २१० Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy