________________
Fort
एतद्वर्गो हि मीलकः ।।” (योगबिन्दु १२३) इति । दीनाः = क्षीणसकलपुरुषार्थशक्तयः। अन्धाः = नयनरहिताः कृपणाः = स्वभावत एव सतां कृपास्थानम् । व्याधिग्रस्ताः = कुष्ठ्याद्यभिभूताः । निःस्वाः = निर्धनाः ।।१२।।
सुदाक्षिण्यं दयालुत्वं दीनोद्धारः कृतज्ञता ।
जनाऽपवादभीरुत्वं सदाचाराः प्रकीर्तिताः ।।१३।। 'सुदाक्षिण्यमि'ति । सुदाक्षिण्यं = गम्भीर-धीरचेतसः प्रकृत्यैव परकृत्याऽभियोगपरता। दयालुत्वं = निरुपधिपरदुःखप्रहाणेच्छा । दीनोद्धारः = दीनोपकारयत्नः । कृतज्ञता = परकृतोपकारपरिज्ञानम् । (जनापवादभीरुत्वं=) जनापवादान्मरणान्निर्विशिष्यमाणाद्भीरुत्वं = भीतभावः (= सदाचाराः प्रकीर्तिताः) ।।१३।।
रागो गुणिनि सर्वत्र, निन्दात्यागस्तथाऽऽपदि ।
अदैन्यं, सत्प्रतिज्ञत्वं सम्पत्तावपि नम्रता ।।१४।। राग इति । गुणिनि = गुणवति पुंसि रागः । सर्वत्र जघन्यमध्यमोत्तमेषु निन्दात्यागः = परिवादाऽपनोदः। तथा आपदि = विपत्तौ अदैन्यं = अदीनभावः । सत्प्रतिज्ञत्वं = प्रतिपन्नक्रियानिर्वाहणम् । सम्पत्तावपि = विभवसमागमेऽपि नम्रता = औचित्येन नमनशीलता ।।१४।। १. 'मीलकाः' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
१२/१४||
२११।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org