SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ bo 4 अविरुद्धकुलाऽऽचारपालनं मितभाषिता । अपि कण्ठगतैः प्राणैरप्रवृत्तिश्च गर्हिते ।।१५।। अविरुद्रेति । अविरुद्धस्य = धर्माद्यप्रतिपन्थिनः कुलाऽऽचारस्य पालनं = अनुवर्तनं (= अविरुद्धकुलाचारपालन) । मितभाषिता = प्रस्ताव स्तोक-हितजल्पनशीलता । कण्ठगतैरपि प्राणैर्गर्हिते = लोकनिन्दिते कर्मणि अप्रवृत्तिश्च ।।१५।। प्रधानकार्यनिर्बन्धः सद्व्ययोऽसद्व्ययोज्झनम् । लोकानुवृत्तिरुचिता प्रमादस्य च वर्जनम् ।।१६।। _ 'प्रधानेति । प्रधानकार्ये = विशिष्टफलदायिनि प्रयोजने निर्बन्धः = आग्रहः (=प्रधानकार्यनिर्बन्धः) । सद्व्ययः पुरुषार्थोपयोगी वित्तविनियोगः । (असद्व्ययोज्झन=) असद्व्ययस्य = तद्विपरीतस्य उज्झनं = त्यागः । लोकानुवृत्तिः = लोकचित्ताऽऽराधना उचिता = धर्माऽविरुद्धा। प्रमादस्य = मद्यपानादिरूपस्य च वर्जनम् ।।१६।। तपश्चान्द्रायणं कृच्छं मृत्युघ्नं पापसूदनम् । आदिधार्मिकयोग्यं स्यादपि लौकिकमुत्तमम् ।।१७।। तप इति । लौकिकमपि = लोकसिद्धमपि, अपिर्लोकोत्तरं समुच्चिनोति, उत्तम = स्वभूमिकोचितशुभाध्यवसायपोषकम् ।।१७।। १. हस्तादर्श 'अविरुद्धसदाचार..' इत्यशुद्धः पाठः । २. मुद्रितप्रती 'संचिनो...' इति पाठः । की ॥२१२ । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy