SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ boto hd 5 वा द्वा त्रिं शि का १२/१९ Jain Education International एकैकं वर्धयेद् ग्रासं 'शुक्ले कृष्णे च हापयेत् । भुञ्जीत नामावास्यायामेष चान्द्रायणो विधिः । । १८ ।। 'एकैकमिति । एकैकं वर्धयेद् ग्रासं = कवलं शुक्ले पक्षे प्रतिपत्तिथेरारभ्य यावत् पौर्णमास्यां पञ्चदश कवलाः । कृष्णे च पक्षे हापयेत् = हीनं कुर्यात् एकैकं कवलम् । ततो भुञ्जीत न अमावास्यायां तस्यां सकलकवलक्षयात् । एष चान्द्रायणः चन्द्रेण वृद्धिभाजा क्षयभाजा च सह इयते = गम्यते यत्तच्चन्द्रायणं तस्याऽयं ( = चान्द्रायणः ) विधिः = करणप्रकार इति ।। १८ ।। 1 सन्तापनादिभेदेन कृच्छ्रमुक्तमनेकधा । अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् ।। १९ । सन्तापनादीति । सन्तापनादिभेदेन कृच्छ्रं कृच्छ्रनामकं तपः अनेकधोक्तम्' | 'आदिना पादसम्पूर्णकृच्छ्रग्रहः । तत्र सन्तापनकृच्छ्रं यथा-" त्र्यहमुष्णं पिबेदम्बु 'त्र्यहमुष्णं घृतं पिबेत् । त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः || ” ( ) इति । पादकृच्छ्रं त्वेतत्- “ एकभक्तेन नक्तेन तथैवाऽयाचितेन च । उपवासेन चैकेन पादकृच्छ्रं विधीयते ।। " ( ) इति । १. 'शुल्के' इत्यशुद्धः पाठो मुद्रितप्रतौ । २ हस्तादर्शे 'वर्धययेद्' इत्यधिकः पाठः । ३. मुद्रितप्रतौ 'अमावस्यां' इति त्रुटितः पाठः । ४. हस्तादर्शविशेषे 'अनेकधोक्तं' नास्ति । अन्यस्मिन् हस्तादर्शे 'अनेकाधोक्तं' इति अधिकः पाठः । ५. हस्तादर्शे आदिना पाद- सम्पूर्णकृच्छ्रग्रह:' इति नास्ति । ६. 'अह..' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।२१३ । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy