________________
books
वा
द्वा
शि
का
१२/२१
Jain Education International
सम्पूर्णकृच्छ्रं पुनरेतदेव चतुर्गुणितमिति । अकृच्छ्राद् = अकष्टात् अतिकृच्छ्रेषु = नरकादिपातफलेषु अपराधेषु हन्त इति प्रत्यवधारणे, सन्तारणं सन्तरणहेतुः परं = प्रकृष्टं प्राणिनाम् ।।१९।। मासोपवासमित्याहुर्मृत्युघ्नं तु तपोधनाः ।
मृत्युञ्जय पोपेतं परिशुद्धं विधानतः ।। २० ।।
मासेति । मासं यावदुपवासो यत्र तत्तथा ( मासोपवासं) इति = एतत् आहुः मृत्युघ्नं तु = मृत्युघ्ननामकं तु तपोधनाः तपः प्रधाना मुनयः । ( मृत्युञ्जयञ्जपोपेतं =) मृत्युञ्जयजपेन परमेष्ठिनमस्कारेण उपेतं = सहितं परिशुद्धं इहलोकाऽऽशंसादिपरिहारेण विधानतः कषायनिरोध-ब्रह्मचर्य-देवपूजादिरूपाद्विधानात् ॥ २० ॥ पापसूदनमप्येवं तत्तत्पापाद्यपेक्षया ।
चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् ।। २१ ।।
'पापे 'ति । पापसूदनमप्येवं परिशुद्धं विधानतश्च ज्ञेयं । तत्तच्चित्ररूपं यत्पापादि साधुद्रोहादि तदपेक्षया ( = तत्तत्पापाद्यपेक्षया) । 'यमुनमुनिराजस्याऽङ्गीकृतप्रव्रज्यस्य साधुवधस्मरणे तद्दिनप्रतिपन्नाऽभोजनाऽभिग्रहस्य षण्मासान् यावज्जातव्रतपर्यायस्य सम्यक्सम्पन्नाऽऽराधनस्य किल न क्वचिद्दिने भोजनमजनीति ।
=
=
१. हस्तादर्शे '...जपः प्रायं' इति पाठः । २. हस्तादर्शे 'यत्पापं' इति पाठः । मूलानुसारेण च सोऽशुद्धः प्रतिभाति । ३. 'यथार्य (र्जुन) मुनिराजस्य इत्यशुद्धः पाठो मुद्रितप्रतौ ।
For Private & Personal Use Only
।।२१४
www.jainelibrary.org