SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ चित्रो = नानाविधः “१ॐ ह्रीं असिआउसा नम” इत्यादिमन्त्रस्मरणरूपो मन्त्रजपः प्रायो = बहुलो यत्र तत् (=चित्रमन्त्रजपप्राय) प्रत्यापत्तिः = तत्तदपराधस्थानान्महता संवेगेन प्रतिक्रान्तिस्तया विशोधितं = विशुद्धिमानीतम् (=प्रत्यायत्तिविशोधितम्) ।।२१।। मोक्षः कर्मक्षयो नाम भोगसंक्लेशवर्जितः । तत्र द्वेषो दृढाऽज्ञानार्दनिष्टप्रतिपत्तितः ।।२२।। 'मोक्ष' इति । दृढाऽज्ञानात् = अबाध्यमिथ्याज्ञानात् भवाऽभिष्वङ्गाऽभावेनाऽनिष्टाऽननुबन्धिन्यपि मोक्षेऽनिष्टाऽनुबन्धित्वेन अनिष्टप्रतिपत्तेः ।।२२।। भवाभिनन्दिनां सा च भवशर्मोत्कटेच्छया । श्रूयन्ते चैतदालापा लोके शास्त्रेऽप्यसुन्दराः ॥२३॥ भवेति । सा च = मोक्षेऽनिष्टप्रतिपत्तिश्च भवाभिनन्दिनां उक्तलक्षणानां भवशर्मणो | विषयसुखस्य उत्कटेच्छया (=भवशर्मोत्कटेच्छया) भवति, द्वयोरेकदोषजन्यत्वात् ।।२३।। "मदिराक्षी न यत्राऽस्ति तारुण्यमदविह्वला । “जडस्तं मोक्षमाचष्टे प्रिया स 'इति नो मतम् ।।२४।। १. 'ॐ' इति पदं मुद्रितप्रतौ नास्ति । २. हस्तादर्श ...दनिष्टः प्र..' इत्यशुद्धः पाठः । हस्तादर्शान्तरे '..दृढोज्ञाना..' इत्यशुद्धः पाठः । ३. हस्तादर्श . ज्ञानी' इत्यशुद्धः पाठः । ४. हस्तादर्श 'ज्ञानीद्र' इत्यशुद्धः पाठः । ५. हस्तादर्श '...टेछया..' इति त्रुटितः पाठः । ६. मुद्रितप्रतौ ‘भवाभिननिन्दि..' इत्यशुद्धः पाठः । ७. हस्तादर्श 'मदिराग्नि' । इति पाठः । ८. हस्तादर्श 'जर्गस्तं' इत्यशुद्धः पाठः । ९. हस्तादर्श 'इंति' इत्यशुद्धः पाठः । १२/२४ ।।२१५।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy