________________
___bo to '
'मदिराक्षी'ति । लोकाऽऽलापोऽयम् ।।२४।।
वरं वृन्दावने रम्ये क्रोष्टुत्वमभिवाञ्छितम् ।
न त्वेवाऽविषयो मोक्षः कदाचिदपि गौतम !।।२५।। 'वरमि'ति । 'गौतम !' इति गालवस्य शिष्याऽऽमन्त्रणम् । ऋषिवचनमिदमिति शास्त्राऽऽलापोऽयम् ।।२५।।
द्वेषोऽयमत्यनर्थाय तदभावस्तु देहिनाम् ।
भवाऽनुत्कटरागेण सहजाऽल्पमलत्वतः ।।२६।। ___'द्वेष' इति । अयं = मुक्तिविषयो द्वेष: अत्यनाय = बहुलसंसारवृद्धये । तदभावस्तु = मुक्तिद्वेषाऽभावः पुनः देहिनां = प्राणिनां भवानुत्कटरागेण = भवोत्कटेच्छाभावेन सहजं
= स्वाभाविकं यदल्पमलत्वं ततः (=सहजाल्पमलत्वतः) । मोक्षरागजनकगुणाऽभावेन
| तदभावेऽपि गाढतरमिथ्यात्वदोषाऽभावेन तद्वेषाभावो भवतीत्यर्थः ।।२६।। १२/२७
मलस्तु योग्यता योग-कषायाख्याऽऽत्मनो मता ।
अन्यथाऽतिप्रसङ्गः स्याज्जीवत्वस्याऽविशेषतः।।२७।। १.हस्तादर्श 'वांछिता' इत्यशुद्धः पाठः । २. हस्तादर्श ...विषयान्' इत्यशुद्धः पाठः। ३. हस्तादर्श 'सहजामलवता' इत्यशुद्धः पाठः । ४. हस्तादर्श ...ल्पमनत्वं' इत्यशुद्धः पाठः । ५. हस्तादर्श 'योग्यतायोग्य..' इत्यशुद्धः पाठः । ६. हस्तादर्श 'स्याज्जीवतस्या' इत्यशुद्धः पाठः ।
॥२१६।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org