________________
botos
से
वा
द्वा
त्रिं
शि
का
१२/२९
Jain Education International
'मस्त्विति । मलस्तु योगकषायाख्या आत्मनो योग्यता मता । तस्या एव बहुत्वाऽल्पत्वाभ्यां दोषोत्कर्षाऽपकर्षोपपत्तेः । अन्यथा जीवत्वस्याऽविशेषतः सर्वत्र साधारणत्वात् अतिप्रसङ्गः मुक्तेष्वपि बन्धाऽऽपत्तिलक्षणः स्यात् ।। २७ ।। प्रागबन्धान्न 'बन्धचेत् किं तत्रैव नियामकम् ।
'प्राणि'ति । प्राक् = पूर्वं अबन्धाद्
योग्यतां तु फलोन्नेयां बाधते दूषणं न तत् ।।२८।। बन्धाऽभावात् 'जीवत्वरूपाऽविशेषेऽपि न बन्धी मुक्तस्य चेत् ? किं तत्रैव = प्रागबन्धे एव नियामकं ? योग्यताक्षयं विना । योग्यतां तु फलोन्नेयां = फलबलकल्पनीयां तदूषणं न बाधते 'तत्र कुतो न योग्यता ?' इत्यत्र फलाऽभावस्यैवोत्तरत्वात् ।
युक्तं चैतत् बन्धस्य बध्यमानयोग्यताऽपेक्षत्वनियमाद्वस्त्रादीनां मञ्जिष्ठादिरागरूपबन्धने तथा-दर्शनात्, तद्वैचित्र्येण फलभेदोपपत्तेः, तस्या अन्तरङ्गत्वात् । तत्परिपाकार्थमेव हेत्वन्तराऽपेक्षणादित्याचार्याः ||२८||
=
=
दिदृक्षा भवबीजं चाऽविद्या चाऽनादिवासना ।
भङ्ग्येषैवाश्रिता सांख्य- शैव- वेदान्ति-सौगतैः ।।२९।।
१. हस्तादर्शे 'बंधयोह्यतत्' इत्यशुद्धः पाठः । २ हस्तादर्शे 'नियामक:' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'जीवत्वरूपवि...' इत्यशुद्धः पाठः । मुद्रितप्रतौ च 'जीवत्वख्या विशेषऽपि ...' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'भंग्यै...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।२१७।
www.jainelibrary.org