________________
'दिदृक्षेति । पुरुषस्य प्रकृतिविकारान् द्रष्टुमिच्छा दिदृक्षा 'सैवेयमिति साङ्ख्याः । भवबीजम् इति शैवाः । अविद्या इति वेदान्तिकाः अनादिवासना इति सौगताः ।।२९।।
प्रत्यावर्तं व्ययोऽप्यस्यास्तदल्पत्वेऽस्य सम्भवः ।
अतोऽपि श्रेयसां श्रेणी किं पुनर्मुक्तिरागतः ॥३०॥ प्रत्यावर्तमिति । प्रत्यावर्तं = प्रतिपुद्गलावर्तं व्ययोऽपि = अपगमोऽपि अस्याः = योग्यतायाः, दोषाणां क्रमहासं विना भव्यस्य मुक्तिगमनाद्यनुपपत्तेः । ___तदल्पत्वे = योग्यताऽल्पत्वे अस्य = मुक्त्यद्वेषस्य सम्भवः = उपपत्तिः । तदुक्तं"एवं चाऽपगमोऽप्यस्याः प्रत्यावर्तं सुनीतितः । स्थित एव तदल्पत्वे भावशुद्धि रपि ध्रुवा ।।" (योगबिन्दु १७०) अतोऽपि = मुक्त्यद्वेषादपि श्रेयसां श्रेणी = कुशलानुबन्धसन्ततिः । किं पुनः वाच्यं मुक्तिरागतः तदुपपत्तौ ।।३०।।
न चायमेव रागः स्यान्मृदुमध्याधिकत्वतः ।
तत्रोपाये च नवधा योगिभेदप्रदर्शनात् ॥३१॥ ___न चेति । न चायमेव = मुक्त्यद्वेष एव रागः स्यात् = मुक्तिरागो भवेदिति वाच्यम् । मृदुमध्याधिकत्वतः = जघन्यमध्यमोत्कृष्टभावात् । तत्र = मुक्तिरागे उपाये १. हस्तादर्श 'सैवैय...' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्रत्यावर्ते' इत्यशुद्धः पाठः । ३. 'योग्यतालप...' इत्यशुद्धः पाठो मुद्रितप्रतौ । ४. 'शुदिरपि' इत्यशुद्धः पाठो मुद्रितप्रतौ । ५. हस्तादर्श 'रागतः' इत्यशुद्धः पाठः ।
१२/३१
॥२
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org