________________
Ho Ho (
च = मुक्त्युपाये च नवधा = नवभिः प्रकारैर्योगिभेदस्य प्रदर्शनादुपवर्णनात् ( योगिभेदप्रदर्शनात्)। तथाहि- (१) मृदूपायो मृदुसंवेगः, (२) मध्योपायो मृदुसंवेगः, (३) अध्युपायो मृदुसंवेगः, (४) मृदूपायो मध्यसंवेगः, (५) मध्योपायो मध्यसंवेगः, (६) अध्युपायो मध्यसंवेगः, (७) मृदूपायो अधिसंवेगः, (८) मध्योपायोऽधिसंवेगः, (९) अध्युपायोऽधिसंवेगश्चेति नवधा योगिन इति योगाचार्याः ।।३१।।
द्वेषस्याऽभावरूपत्वादद्वेषश्चैक' एव हि ।
ततः क्षिप्रं क्रमाच्चाऽतः परमानन्दसम्भवः ।।३२॥ _'द्वेषस्य'ति । अद्वेषश्च द्वेषस्याऽभावरूपत्वादेक एव हि । अतो न तेन योगिभेदोपपत्तिरित्यर्थः। फलभेदेनाऽपि भेदमुपपादयति- ततो = मुक्तिरागात् क्षिप्रं = अनतिव्यवधानेन, अतो = मुक्त्यद्वेषात्” (= क्रमात् च) क्रमेण = मुक्तिरागाऽपेक्षया बहुद्वारपरम्परालक्षणेन परमानन्दस्य = निर्वाणसुखस्य सम्भवः (= परमानन्दसम्भवः) ।।३२।।
।। इति पूर्वसेवाद्वात्रिंशिका ।।१२।।
क
१२/३२
।।।२१९।।
१. मुद्रितप्रती 'मुक्त्युपाये च' इति नास्ति । २. हस्ताद” 'श्चेष' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ हस्तादर्श च 'रागात्' इति पाठः । परं व्याख्यानुसारेण 'ततः' इति भवितव्यम् । हस्तादर्शान्तरे च 'अत्रोपिच क्रमेणस्या' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'मक्यद्वेषाक्रमेण' इत्यशुद्धः पाठः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org