SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ में 244 434 ॥ अथ मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका ।।१३।। उक्तेषु पूर्वसेवाभेदेषु मुक्त्यद्वेषं प्राधान्येन पुरस्कुर्वन्नाह उक्तभेदेषु योगीन्द्रर्मुक्त्यद्वेषः प्रशस्यते । मुक्त्युपायेषु नो चेष्टा 'मलनायैव यत्ततः ॥१॥ उक्तभेदेष्विति । मलनायैव = विनाशनिमित्तमेव । तद्धि भवोपायोत्कटेच्छया स्यात् । सा च न मुक्त्यद्वेष इति मुक्त्युपायमलनाऽभावप्रयोजकोऽयम् ।।१।। विषाऽन्नतृप्तिसदृशं तद्यतो व्रतदुर्ग्रहः ।। उक्तः शास्त्रेषु शस्त्राऽग्नि-व्यालदुर्ग्रहसन्निभः ॥२॥ विषेति । तद् = मुक्त्युपायमलनं विषाऽन्नतृप्तिसदृशं, आपाततः सुखाऽऽभासहेतुत्वेऽपि बहुतरदुःखाऽनुबन्धित्वात् । ___ यद् (?यतः) = यस्माद् व्रतानां दुर्ग्रहोऽसम्यगङ्गीकारः (=व्रतदुर्ग्रहः) उक्तः शास्त्रेषु = योगस्वरूपनिरूपकग्रन्थेषु (शस्त्राऽग्नि-व्यालदुर्ग्रहसन्निभः=) शस्त्राऽग्नि-व्यालानां यो दुर्ग्रहो = "दुर्गृहीतत्वं तेन सन्निभः = सदृशः, असुन्दरपरिणामत्वात् ।।२।। ननु “दुर्गृहीतादपि श्रामण्यात्सुरलोकलाभः केषांचिद् भवतीति कथमत्राऽसुन्दरतेत्यत्राह१. हस्तादर्श 'मलिना...' इत्यशुद्धः पाठः । २. हस्तादर्श 'विषान्नतृप्त...' इति पाठः । ३. हस्तादर्श 'शस्त्रग्ने' इत्यशुद्धः पाठः । ४-५. 'दुर्ग्रही' इति मुद्रितप्रतौ । |||२२०। १३/२ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy