________________
F
iss
5
ग्रैवेयकाऽऽप्तिरप्यस्माद्विपाकविरसाऽहिता ।
मुक्त्यद्वेषश्च तत्राऽपि कारणं न क्रियैव हि ।।३।। ___ ग्रैवेयकाप्तिरिति । अस्माद् = व्रतदुर्ग्रहात् ग्रैवेयकाऽऽप्तिरपि = शुद्धसमाचारवत्सु साधुषु चक्रवर्त्यादिभिः पूज्यमानेषु दृष्टेषु सम्पन्नतत्पूजास्पृहाणां तथाविधाऽन्यकारणवतां च केषाञ्चिद् व्यापन्नदर्शनानामपि प्राणिनां नवमवेयकप्राप्तिरपि विपाकविरसा = बहुतरदुःखाऽनुबन्धबीजत्वेन परिणतिविरसा अहिता = अनिष्टा तत्त्वतः, चौर्याऽर्जितबहुविभूतिवदिति द्रष्टव्यम् ।
तत्राऽपि = नवमग्रैवेयकप्राप्तावपि च मुक्त्यद्वेषः कारणं, न केवला क्रियैव हि = अखण्डद्रव्यश्रामण्यपरिपालनलक्षणा । ___तदुक्तं- “अनेनाऽपि प्रकारेण द्वेषाऽभावोऽत्र तत्त्वतः । हितस्तु यत्तदेतेऽपि तथाकल्याणभागिनः ।।” (योगबिन्दु १४६) इति ।।३।।
लाभाद्यर्थितयोपाये फले चाऽप्रतिपत्तितः ।
व्यापन्नदर्शनानां हि न द्वेषो द्रव्यलिङ्गिनाम् ॥४॥
लाभेति । व्यापन्नदर्शनानां हि द्रव्यलिङ्गिनां उपाये = चारित्रक्रियादौ लाभाद्यर्थितया ॥२२१ । १३/४ || एव न द्वेषो, रागसामग्र्यां द्वेषाऽनवकाशात् । फले च मोक्षरूपे अप्रतिपत्तित एव न )
|| द्वेषः । न हि ते मोक्षं स्वर्गादिसुखाद् भिन्नं प्रतियन्ति यत्र द्वेषाऽवकाशः स्यात् । ॥
र
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org