________________
___
।। स्वर्गादिसुखाऽभिन्नत्वेन प्रतीयमाने तु तत्र तेषां राग एव ।
वस्तुतो भिन्नस्य तस्य प्रतीतावपि स्वेष्टविघातशङ्कया तत्र द्वेषो न स्यादिति द्रष्टव्यम् ||४||
मुक्तौ च मुक्त्युपाये च मुक्त्यर्थं प्रस्थिते पुनः ।
यस्य द्वषो न तस्यैव 'न्याय्यं गुर्वादिपूजनम् ।।५।। मुक्तौ चेति । स्पष्टः ।।५।।
गुरुदोषवतः स्वल्पा सक्रियापि गुणाय न ।
भौतहन्तुर्यथा तस्य पदस्पर्शनिषेधनम् ।।६।। गुर्विति । गुरुदोषवतः = अधिकदोषवतः स्वल्पा = स्तोका सक्रियाऽपि = सच्चेष्टापि गुणाय न भवति। यथा भौतहन्तुः = भस्मव्रतिघातकस्य तस्य = भौतस्य पदस्पर्शनस्य = चरणसङ्घट्टनस्य निषेधनं (=पदस्पर्शनिषेधनम्) । कस्यचित् खलु शबरस्य कुतोऽपि प्रस्तावात् 'तपोधनानां पादेन स्पर्शनं महतेऽनर्थाय सम्पद्यत' इति श्रुतधर्मशास्त्रस्य कदाचिन्मयूरपिच्छैः प्रयोजनमजायत । यदाऽसौ निपुणमन्वेषमाणो न लेभे, तदा श्रुतमनेन
त(?य)था भौतसाधुसमीपे तानि सन्ति, ययाचिरे च तानि तेन तेभ्यः, परं न किञ्चिल्लेभे। १३/६ ततोऽसौ शस्त्रव्यापारपूर्वकं तान्निगृह्य जग्राह तानि, पादेन स्पर्शं च परिहृतवान् । यथाऽस्य
| १. हस्ताद” 'पुच' इत्यशुद्धः पाठः । २. हस्तादर्श 'नाय्यं' इत्यशुद्धः पाठः । ३. हस्तादर्श 'तावन्नि..' इति पाठः।
hob F5 र
||२२२।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org