________________
__ प्रतिकूलेति । (तत्) तस्य भुक्त्याद्यदृष्टस्य तनुत्वं च नोचितं । प्रतिकूलेन विरोधिपरिणामेनानिवर्त्यत्वात् (=प्रतिकूलानिवर्त्यत्वात् । न हि वीतरागत्वादिपरिणामेन रागादीनामिव क्षुधादीनां तथाविधपरिणामेन निवर्त्यत्वमस्ति, येन ततस्तज्जननकाऽदृष्टतनुत्वं स्यात् । ___'अस्त्येवाभोजनभावनातारतम्येन क्षुन्निरोधतारतम्यदर्शनादिति चेन्न । ततो भोजनादिगतस्य प्रतिबन्धमात्रस्यैव निवृत्तेः, शरीरादिगतस्येव 'अशरीरादिभावनया । अन्यथाऽभोजनभावनात्यन्तोत्कर्षेण भुक्तिनिवृत्तिवदशरीरभावनात्यन्तोत्कर्षेण शरीरनिवृत्तिरपि प्रसज्येतेति महत्सङ्कटमायुष्मतः ।
ननु भुक्त्यादिविपरीतपरिणामेन भुक्त्याद्यदृष्टस्य मोहरूपप्रभूतसामग्री विना स्वकार्याऽक्षमत्वलक्षणं तनुत्वमेव क्रियते। तनुस्थापकाऽदृष्टस्यापि अशरीरभावनया तद्भवबाह्ययोगक्रियां विरुणद्ध्येव । 'शरीरं तु प्रागेव निष्पादितं न बाधितुं क्षमत इति अस्माकं न कोऽपि दोष' इति चेत् ? न, विपरीतपरिणामनिवर्त्यत्वे भुक्त्यादेस्तददृष्टस्य रागाद्यर्जकादृष्टवद्योगप्रकर्षवति भगवति निर्मूलनाशाऽऽपत्तेर्विशेषाऽभावात् ।।
घात्यघातिकृतविशेषाऽभ्युपगमे तु अघातिनां भवोपग्राहिणां यथाविपाकोपक्रममेव निवृत्ति-
सम्भवादिति न किञ्चिदेतत । ३०/२५।। १. मुद्रितप्रतौ ‘शरीरादिभाव...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'निरुण...' इति पाठः । सोऽपि शुद्धः ।
4 AAAAA
५१५ ।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org