________________
ब 4
AAPPA
औदारिकादभिन्नं चेत् तत्केवलमतिशयितरूपाद्युपेतं तदेव तदा भुक्तिं विना न । तिष्ठति, चिरकालीनौदारिकशरीरस्थितेर्भुक्तिप्रयोज्यत्वनियमात् । भुक्तेः सामान्यतः पुद्गलविशेषोपचयव्यापारकत्वेनैवोपयोगात्, वनस्पत्यादीनामपि जलाद्यभ्यादानेनैव चिरकालस्थितेः । ___ शरीरविशेषस्थितौ विचित्रपुद्गलोपादानस्याऽपि हेतुत्वेन तं विना केवलिशरीरस्थितेः कथमप्यसम्भवात् । तत्र परमौदारिकभिन्नत्वस्य कैवल्याऽऽकालीनत्वपर्यवसितस्य विशेषणस्याऽप्रामाणिकत्वादिति ।।२३।।
भुक्त्याद्यदृष्टसम्बद्धमदृष्टं स्थापकं तनोः ।
तत्त्यागे दृष्टबाधा त्वत्पक्षभक्षणराक्षसी ॥२४॥ ___ भुक्त्यादीति । भुक्त्याद्यदृष्टेन = भोजनादिफलहेतुजाग्रद्विपाककर्मणा सम्बद्धं (=भुक्त्या| द्यदृष्टसम्बद्धं) तनोः = शरीरस्य स्थापकमदृष्टं दृष्टमिति शेषः । तत्त्यागे केवलिन्यभ्युपगम्यमाने त्वत्पक्षभक्षणराक्षसी दृष्टबाधा समुपतिष्ठते । तथा च तद्भयादपि तव नेत्थं कल्पना हितावहेति भावः ।।२४।।
ननु तनुस्थापकाऽदृष्टस्य भुक्त्याद्यदृष्टनियतत्वेऽपि भुक्त्याद्यदृष्टस्य तनुत्वादभुक्त्याधुपपत्तिर्भगवतो भविष्यतीत्यत आह
।।।।५१४।। प्रतिकूलाऽनिवर्त्यत्वात्तत्तनुत्वं च नोचितम् । दोषजन्म तनुत्वं च निर्दोषे नोपपद्यते ॥२५।।
३०/२५
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org