SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ भु क्ति व्य व स्था प न द्वा त्रिं शि का ३०/२८ has Jain Education International दोषजन्म अग्निमान्द्यादिदोषजनितं तनुत्वं च चिरकालविच्छेदलक्षणं निर्दोषे भगवति नोपपद्यते । नियतविच्छेदश्च नियतकालभुक्त्याद्याक्षेपक एवेति भाव: ।। २५ ।। परोपकारहानिश्च नियताऽवसरस्य न । = पुरीषादिजुगुप्सा च निर्मोहस्य न विद्यते ।। २६ । परोपकारेति । (१३) परोपकारस्य हानि ( = परोपकारहानिः ) च नियताऽवसरस्य भगवतो न भवति, तृतीययाममुहूर्तमात्र एव भगवतो भुक्तेः, शेषमशेषकालमुपकाराऽवसरात् । (१४) पुरीषादिजुगुप्सा च निर्मोहस्य क्षीणजुगुप्सामोहनीयकर्मणो भगवतः न विद्यते ||२६|| ततोऽन्येषां जुगुप्सा चेत्सुरासुरनृपर्षदि । नाग्न्येऽपि न कथं तस्याऽतिशयश्चोभयोः समः ।। २७ ।। तत इति । ततः पुरीषादेः अन्येषां = लोकानां जुगुप्सा चेत् ? सुरासुरनृपर्षदि उपविष्टस्येति शेषः नाग्न्येऽपि तेषां कथं न जुगुप्सा ? (तस्य) अतिशयश्चोभयोः पक्षयोः समः । ततो भगवतो नाग्न्याऽदर्शनवत् पुरीषाद्यदर्शनस्याऽप्युपपत्तेः । सामान्यकेवलिभिस्तु विविक्तदेशे तत्करणान्न दोष इति वदन्ति ||२७|| स्वतो हितमिताहाराद् व्याध्युत्पत्तिश्च कापि न । ततो भगवतो भुक्तौ पश्यामो नैव बाधकम् ।। २८ ।। For Private & Personal Use Only ।।५१६ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy