SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ भु क्ति व्य व स्था प न द्वा त्रिं शि का ३०/२८ has Jain Education International दोषजन्म अग्निमान्द्यादिदोषजनितं तनुत्वं च चिरकालविच्छेदलक्षणं निर्दोषे भगवति नोपपद्यते । नियतविच्छेदश्च नियतकालभुक्त्याद्याक्षेपक एवेति भाव: ।। २५ ।। परोपकारहानिश्च नियताऽवसरस्य न । = पुरीषादिजुगुप्सा च निर्मोहस्य न विद्यते ।। २६ । परोपकारेति । (१३) परोपकारस्य हानि ( = परोपकारहानिः ) च नियताऽवसरस्य भगवतो न भवति, तृतीययाममुहूर्तमात्र एव भगवतो भुक्तेः, शेषमशेषकालमुपकाराऽवसरात् । (१४) पुरीषादिजुगुप्सा च निर्मोहस्य क्षीणजुगुप्सामोहनीयकर्मणो भगवतः न विद्यते ||२६|| ततोऽन्येषां जुगुप्सा चेत्सुरासुरनृपर्षदि । नाग्न्येऽपि न कथं तस्याऽतिशयश्चोभयोः समः ।। २७ ।। तत इति । ततः पुरीषादेः अन्येषां = लोकानां जुगुप्सा चेत् ? सुरासुरनृपर्षदि उपविष्टस्येति शेषः नाग्न्येऽपि तेषां कथं न जुगुप्सा ? (तस्य) अतिशयश्चोभयोः पक्षयोः समः । ततो भगवतो नाग्न्याऽदर्शनवत् पुरीषाद्यदर्शनस्याऽप्युपपत्तेः । सामान्यकेवलिभिस्तु विविक्तदेशे तत्करणान्न दोष इति वदन्ति ||२७|| स्वतो हितमिताहाराद् व्याध्युत्पत्तिश्च कापि न । ततो भगवतो भुक्तौ पश्यामो नैव बाधकम् ।। २८ ।। For Private & Personal Use Only ।।५१६ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy