SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ गण-सङ्घ-क्रिया-धर्म-ज्ञान-ज्ञानि-गणिष्वपि ।।७।। अर्हदिति । अर्हन्तस्तीर्थकराः । सिद्धाः क्षीणाष्टकर्ममलाः । कुलं नागेन्द्रादि । आचार्यः पञ्चविधाऽऽचाराऽनुष्ठाता तत्प्ररूपकश्च' । उपाध्यायः स्वाध्यायपाठकः । स्थविरः सीदतां स्थिरीकरणहेतुः । गण: कौटिकादिः । सङ्घः साध्वादिसमुदायः । क्रियाऽस्तिवादरूपा। धर्मः श्रुतधर्मादिः । ज्ञानं मत्यादि । ज्ञानिनस्तद्वन्तः । गणिर्गणाधिपतिः ।।७।। अनाशातनया भक्त्या बहुमानेन वर्णनात् । द्विपञ्चाशद्विधः प्रोक्तो द्वितीयश्चौपचारिकः ।।८।। अनाशातनयेति । अनाशातनया = सर्वथाऽहीलनया भक्त्या = उचितोपचाररूपया बहु-मानेन = आन्तरभावप्रतिबन्धरूपेण वर्णनात् = सद्भूतगुणोत्कीर्तनात् द्वितीयः चाऽनाशातनात्मक औपचारिकविनयो द्विपञ्चाशद्विधः प्रोक्तः, त्रयोदशपदानां चतुर्भिर्गुणने यथोक्तसंख्यालाभात् ।।८।। एकस्याऽऽशातनाऽप्यत्र सर्वेषामेव तत्त्वतः । अन्योऽन्यमनुविद्धा हि तेषु ज्ञानादयो गुणाः ।।९।। एकस्येति । अत्र अर्हदादिपदेषु एकस्याऽपि आशातना तत्त्वतः सर्वेषां (एव) हि १. हस्तादर्श'...त्पश्च' इति त्रुटितः पाठः । २. हस्तादर्श 'अनाशत...' इत्यशुद्धः पाठः । ३. हस्तादर्श'...तनाप्यस्मिन्' इत्यशुद्धः पाठः । २९/९ ना। ४९६।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy