________________
dous ds Fs
वि
न
य
द्वा
त्रिं
शि
का
२९/११
Jain Education International
= यतः तेषु ज्ञानादयो गुणा अन्योन्यमनुविद्धाः । यदेव ह्येकस्य शुद्धं ज्ञानं तदेवाऽपरस्याऽपि । इत्थं च हीलनाविषयीभूतज्ञानादिसम्बन्धस्य सर्वत्राऽविशेषादेकहीलने सर्वहीलनाऽऽपत्तेर्दारुणविपाकत्वमवधार्य न कस्याऽपि हीलना कार्येति भाव: ।।९।। नूनमल्पश्रुतस्याऽपि गुरोराचारशालिनः ।
हीना भस्मसात्कुर्याद् गुणं वह्निरिवेन्धनम् । । १० ॥ नूनमिति । नूनं निश्चितं अल्पश्रुतस्याऽपि अनधीताऽऽगमस्याऽपि 'कारणान्तरस्थापितस्य गुरोः = आचार्यस्य आचारशालिनः पञ्चविधाऽऽचारनिरतस्य हीलना गुणं स्वगतचारित्रादिकं भस्मसात् कुर्यात्, इन्धनमिव वह्निः || १० || शक्त्यग्रज्वलन - व्याल - सिंहक्रोधाऽतिशायिनी ।
=
=
=
=
अनन्तदुःखजननी कीर्तिता गुरुहीलना ।। ११ ।।
शक्त्यग्रेति । शक्तिः प्रहरणविशेषस्तदग्रं शक्त्यग्रं ज्वलनः = अग्निः, व्याल - सिंहयोः सर्पकेसरिणोः क्रोधः = कोप:, तदतिशायिनी = तेभ्योऽप्यधिका ( = शक्त्यग्रज्वलन- व्यालसिंहक्रोधातिशायिनी) अनन्तदुःखजननी गुरुहीलना कीर्तिता दशवैकालिके ।। ११ ।। पठेद्यस्याऽन्तिके धर्मपदान्यस्याऽपि सन्ततम् ।
=
१. हस्तादर्शे 'कारणन्तर' इत्यशुद्धः त्रुटितश्च पाठः । २ हस्तादर्शे 'कीर्तितो' इत्यशुद्धः पाठः । ३. हस्तादर्शे '...शांतिके' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।। ४९७ ।।
www.jainelibrary.org