________________
कायवाङ्मनसां शुद्ध्या कुर्याद् विनयमुत्तमम् ।।१२।। पठेदिति । यस्याऽन्तिके धर्मपदानि = धर्मफलानि सिद्धान्तपदानि पठेत् अस्य सन्ततमपि = निरन्तरमपि, न तु सूत्रग्रहणकाल एव, कुशलाऽनुबन्धव्यवच्छेदप्रसङ्गात् कायवाङ्मनसां शुद्ध्या उत्तमं विनयं कुर्यात् ।।१२।।
पर्यायेण विहीनोऽपि शुद्धज्ञानगुणाऽधिकः ।
'ज्ञानप्रदानसामर्थ्यादतो रत्नाऽधिकः स्मृतः।।१३।। पर्यायेणेति । अतो = धर्मपाठकस्य सदा विनयाऽर्हत्वात् पर्यायेण = चारित्रपर्यायेण विहिनोऽपि शुद्धज्ञानगुणेनाधिको (=शुद्धज्ञानगुणाऽधिकः) ज्ञानप्रदानसामर्थ्यमधिकृत्य (=ज्ञानप्रदानसामर्थ्यात) रत्नाधिकः स्मत आवश्यकादौ । स्वापेक्षितरत्नाऽऽधिक्येन तत्त्वव्यवस्थितेः । विवेचितमिदं सामाचारीप्रकरणे ।।१३।।
शिल्पार्थमपि सेवन्ते शिल्पाऽऽचार्यं जनाः किल ।
धर्माऽऽचार्यस्य धर्मार्थं किं पुनस्तदतिक्रमः ।।१४।। शिल्पार्थमिति । व्यक्तः ।।१४।।
ज्ञानार्थं विनयं प्राहुरपि प्रकटसेविनः । १. मुद्रितप्रतौ 'ज्ञान प्रदान साम...' इत्यस्थानच्छिन्नः पाठः । २. हस्तादर्श 'प्रगटशालिनः' इत्यशुद्धः पाठः ।
२९/१४ा
||४९८।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org