SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ कायिकोऽष्टविधश्चाऽयं वाचिकश्च' चतुर्विधः । हितं मितं चाऽपरुषं ब्रुवतोऽनुविचिन्त्य च ।।५।। कायिक इति । अयं चाऽष्टविधः कायिक उपचारः । वाचिकश्च चतुर्विधः ।। हितं = परिणामसुन्दरं ब्रुवतः प्रथमः । ___मितं = स्तोकाऽक्षरं ब्रुवतो द्वितीयः । अपरुषं = चाऽनिष्ठुरं ब्रुवतस्तृतीयः । अनुविचिन्त्य = स्वालोच्य च ब्रुवतः चतुर्थ इति ।।५।। मानसश्च द्विधा शुद्धप्रवृत्त्याऽसन्निरोधतः । छद्मस्थानामयं प्रायः सकलोऽन्याऽनुवृत्तितः ।।६।। मानसश्चेति । मानसश्च = उपचारो द्विधा शुद्धप्रवृत्त्या = धर्मध्यानादिप्रवृत्त्या, असन्नि-रोधतः = आर्तध्यानादिप्रतिषेधात् । ____ अयं च सकलः प्रायः प्रतिरूपो विनयः छद्मस्थानामन्याऽनुवृत्तित = आत्मव्यतिरिक्तप्रधानानुवृत्तेः । प्रायोग्रहणाद् अज्ञातकेवलभावदशायां केवलिनामपि । अन्यदा तु तेषामप्रतिरूप एव विनयस्तथैव तत्कर्मविनयनोपपत्तेः । तदुक्तं- “पडिरूवो खलु विणओ पराणुअत्तिमइओ मुणेअब्बो। अप्पडिरूवो विणओ णायबो केवलीणं तु ।।” (द.वै.नि. ९/३२३) ।।६।। अर्हत्सिद्ध-कुलाऽऽचार्योपाध्याय-स्थविरेषु च । १. हस्तादर्श 'वाचिकस्तु' इति पाठः । २. मुद्रितप्रतौ 'अक्षात' इत्यशुद्धः पाठः । १४९५।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy