________________
ज्ञान-दर्शन-चारित्र-तपोभिरुपचारतः ।
अयं च पञ्चधा भिन्नो दर्शितो मुनिपुङ्गवैः ॥२॥ ज्ञानेति । ज्ञानादीनां विनयत्वं पूर्वकर्मविनयनादुत्तरकर्माऽबन्धाच्च द्रष्टव्यम् ।।२।।
प्रतिरूपेण योगेन तथाऽनाशातनात्मना ।
उपचारो द्विधा तत्राऽऽदिमो योगत्रयात् त्रिधा ।।३।। प्रतिरूपेणेति । प्रतिरूपेण = उचितेन योगेन तथाऽनाशातनात्मना = आशातनाऽभावेन उपचारो द्विधा । तत्राऽऽदिमः = प्रतिरूपयोगात्मको योगत्रयात् त्रिधा = कायिको वाचिको मानसश्चेति ।।३।।
अभिग्रहाऽऽसनत्यागावभ्युत्थानाऽञ्जलिग्रहौ ।
कृतिकर्म च शुश्रूषा गतिः पश्चाच्च सम्मुखम् ।।४।। अभिग्रहेति । अभिग्रहो गुरुनियोगकरणाभिसन्धिः । आसनत्यागः = आसनदानं = पीठकाद्युपनयनमित्यर्थः (= अभिग्रहाऽऽसनत्यागौ)। अभ्युत्थानं निषण्णस्य सहसाऽर्हदर्शने । अञ्जलिग्रहः प्रश्नादौ (= अभ्युत्थानाऽञ्जलिग्रहौ)। कृतिकर्म च वन्दनम् । शुश्रूषा विधिवददूराऽऽसन्नतया सेवनम् । पश्चाद् गतिः५ गच्छतः, सम्मुखं च गतिरागच्छतः इति ।।४।। ।।४९४।। १. हस्तादर्श 'भिन्ना' इत्यशुद्धः पाठः । २. हस्तादर्श 'त्रिधात्' इत्यशुद्धः पाठः । ३. हस्तादर्शे ‘पश्चमं...' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ ....हैदर्शनेन' इत्यशुद्धः पाठः । ५. हस्तादर्श '...गतिर्गतिर्गच्छ....' इत्यधिकः पाठः ।
२९/४
Jain Education International
For Private & Personal use only
www.jainelibrary.org