SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ चित्रेति । क्रियात्मना चेयं = सद्दीक्षा चित्रा = नानाप्रकारा सामायिकात्मना = 'समतापरिणामेन एका । __तस्मात् समुच्चयेन ज्ञानक्रिययोस्तुल्यबलत्वेन आर्यः = शिष्टैः परमानन्दकृन्मता ।।३२।। ।। इति दीक्षाद्वात्रिंशिका ||२८|| ।। अथ विनयद्वात्रिंशिका ॥२९॥ अनन्तरं दीक्षा निरूपिता तस्याश्च विनयगर्भाया एव सफलत्वमिति विनयं निरूपयन्नाह कर्मणां द्राग्विनयनाद्विनयो विदुषां मतः । अपवर्गफलाऽऽयस्य मूलं धर्मतरोरयम् ।।१।। कर्मणामिति । कर्मणां = ज्ञानावरणीयादीनां द्राक् = शीघ्रं विनयनात्' = अपनयनात् विदुषां विनयो मतः । अयं अपवर्गफलेनाऽऽढ्यस्य (=अपवर्गफलाऽऽन्यस्य) पूर्णस्य धर्मतरोर्मूलम् ।।१।। १. हस्तादर्श 'सता' इति पाठः । २. हस्तादर्श 'निरूपये...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'विनयात्' इति पाठः । ४. हस्तादर्श 'पूर्णताधर्मः' इत्यशुद्धः पाठः । ।।४९३।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy