SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ व्युत्थानमिति । व्यवहारे आत्ममात्रप्रतिबन्धलक्षण ध्यानप्रतिबन्धेन व्युत्थानं चेत् ? | न, ध्यानाऽप्रतिबन्धतः सुव्यापारलक्षणस्य तस्य करणनिरोधेऽनुकूलत्वादेव चित्तविक्षेपाणामेव तत्प्रतिबन्धकत्वात् ।। ___एकध्यानान्तरं पुनः ध्यानान्तराऽऽरम्भे मैत्र्यादिपरिकर्मणि स्थितम् । तथा च तावन्मात्रेण व्युत्थानत्वे समाधिप्रारम्भस्याऽपि व्युत्थानत्वाऽऽपत्तिरिति न किञ्चिदेतत् ।।३०।। विचित्रत्वमनालोच्य बकुशत्वादिना श्रुतम् । दीक्षाशुबैकरूपेण वृथा भ्रान्तं दिगम्बरैः ।।३१।। विचित्रत्वमिति । बकुशत्वादिना श्रुतं प्रवचनादाकर्णितं विचित्रत्वमनालोच्य दीक्षाया यच्छुद्धमेकं रूपं परमोपेक्षामात्रलक्षणं तेन (-दीक्षाशुबैकरूपेण) वृथा दिगम्बरैर्धान्तम्', यैः प्रतिक्षिप्यते व्यवहारकाले दीक्षापारम्यम । शुद्धदीक्षाकारणाऽवलम्बने उपरितनोत्कर्षाऽभावेऽपि दीक्षामात्राऽप्रतिक्षेपे च धर्मोपकरणधरणेऽपि तेषां तदव्याघातः स्यात् । बुद्धिपूर्वकममत्वपरिहारस्याप्याहारादिग्रहणवदुपपत्तेरित्यन्यत्र विस्तरः ।।३१।। चित्रा क्रियात्मना चेयमेका सामायिकात्मना । तस्मात् समुच्चयेनाऽऽर्यैः परमानन्दकृन्मता ॥३२॥ १. मुद्रितप्रतौ '...लक्षणं ध्यान....' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ हस्तादर्श च '...पाणामिव...' इत्यशुद्धः पाठः। ३. हस्तादर्श '...: द्विः भ्रा...' इत्यधिकः पाठः । २८/३२ ४९२।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy