________________
पेज रु ho to p f
क्षा
द्वा
त्रिं
शि
का
२८/३०
Jain Education International
व्यवहारेऽपि च ध्यानमक्षतप्रसरं सदा ।
मनोवाक्काययोगानां सुव्यापारस्य तत्त्वतः ॥ २८ ॥ व्यवहारेऽपि चेति । न हि चित्तनिरोधमात्रमेव ध्यानमभ्युपेमः, किं तु करणदृढसुव्यापारमपीति । तदाऽपि तदक्षतमिति तात्पर्यम् ||२८||
शुभं योगं प्रतीत्याऽस्याम नारम्भित्वमागमे । व्यवस्थितमितश्चांऽशात् स्वभावसमवस्थितिः ।। २९ ।।
शुभमिति । शुभं योगं प्रतीत्याऽस्यां सदीक्षायां आगमे प्रज्ञप्त्यादिरूपे अनारम्भित्वं व्यवस्थितं, “तत्थ णं जे ते पमत्तसंजया ते सुहं जोगं पडुच्च णो आयारंभा ” ( भगवती १/१/१७) इत्यादिवचनात् ।
इतश्चांऽशात् स्वभावसमवस्थितिः अनारम्भित्वस्य चरणगुणस्वभावत्वात् । ज्ञानाद्यप्रकर्षेऽपि' ज्ञानवत्पारतन्त्र्ययोग्यतया तदुपपत्तेरप्रमादेन विशुद्धत्वाच्चेति ।। २९ ।। व्युत्थानं व्यवहारे चेन्न ध्यानाऽप्रतिबन्धतः ।
स्थितं ध्यानान्तराऽऽरम्भ एकध्यानान्तरं पुनः ||३०||
१. हस्तादर्शे ‘...प्रसरस्तदा' इति लिङ्गभेदादशुद्धः पाठः । २. हस्तादर्शे '... मनरं' इत्यशुद्धः पाठः । ३. '... प्रकर्षोऽपि ....' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ हस्तादर्शे च 'व्यवहारश्चे....' इत्यशुद्धः पाठः । व्याख्यानुसारेण शुद्ध: पाठोऽस्माभिः योजितोऽत्र ।
For Private & Personal Use Only
।।४९१।।
www.jainelibrary.org