SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ 45 न च वासनात्मनाऽविच्छिन्नस्य तत्फलविच्छेदो नाम, यथा 'मतिश्रुतोपयोगयोर|| न्यतरकालेऽन्यतरस्येति ध्येयम् ।।२५।। फले न 'तुल्यकक्षत्वं शुभ-शुद्धोपयोगयोः । येषामन्त्यक्षणे तेषां शैलेश्यामेव विश्रमः ।।२६।। फल इति । येषां वादिनां फले मोक्षलक्षणे शुभ-शुद्धोपयोगयोर्न तुल्यकक्षत्वं साधारण्येन प्रधानहेतुत्वं तेषां शैलेश्यामन्त्यक्षण एव विश्रमः स्यात्, तदैव सर्वसंवरोपपत्तेः । तदुपकारकत्वस्य चोभयत्राऽविशेषात्, तत्सन्निहितोपकारकत्वस्य च शुद्धोपयोगमात्राऽविश्रान्तत्वात्। आपेक्षिकस्य च तस्य "शुभोपयोगेऽप्यबाधाद्, उचितगुणवृत्तित्वेन न्याय्य त्वाच्चेति ।।२६।। एतदेव भावयति२८/२७ अध्यात्मादिकयोगानां ध्यानेनोपक्षयो यदि । हन्त वृत्तिक्षयेण स्यात्तदा तस्याप्युपक्षयः ॥२७॥ अध्यात्मिकेति । भावितार्थः ।।२७।। एतच्च व्यवहारे ध्यानाऽभावमभिप्रेत्योक्तं वस्तुतः तदा ध्यानमप्यनपायमेवेत्याह ।।४९०।। १. हस्तादर्श 'यथा के मति...' इत्यधिकः पाठः । २. हस्तादर्श 'कक्षतुल्यत्वं' इति पदव्यत्यासः । ३. हस्तादर्श 'सर्वसंचरो...' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'आक्षेपिक...' इत्यशुद्धः पाठः । ५. हस्तादर्श मुद्रितप्रतिषु च 'शुद्धोप...' इत्यशुद्धः पाठः । ६. हस्तादर्श 'तवा' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy