________________
फे रु ho de
क्षा
द्वा
त्रिं
शि
का
२८/२५
Jain Education International
अनादिकालाऽनुगता महती सगवासना । तत्त्वज्ञानाऽनुगतया दीक्षयैव निरस्यते ।। २२ ।। यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च । अत एव च तस्यैव दीक्षा सामायिकात्मिका ।। २३ ।। नाऽरत्यानन्दयोरस्यामवकाशः कदाचन ।
प्रचारो भानुमत्यभ्रे न तमस्तारकत्विषोः ।। २४ । वीराणामित्याद्यारभ्य नवश्लोकी प्रायो व्यक्तार्था ।।१६-१७-१८-१९-२०-२१-२२२३-२४ ।।
शुद्धोपयोगरूपेयमित्थं च व्यवतिष्ठते ।
व्यवहारेऽपि नैवाऽस्या व्युच्छेदो वासनात्मना ।। २५ ।।
शुद्धेति । इत्थं च ममत्वाऽरत्यानन्दाद्यनाक्रान्तसच्चिदानन्दमयशुद्धात्मस्वभावाऽऽचरणरूपत्वे इयं दीक्षा शुद्धोपयोगरूपा व्यवतिष्ठते, कषायलेशस्याप्यशुद्धताऽऽपादकस्याऽभावात् । व्यवहारेऽपि = आहार-विहारादिक्रियाकालेऽपि नैवाऽस्याः शुद्धोपयोगरूपाया दीक्षाया वासनात्मना व्युच्छेदः ।
१. हस्तादर्शे 'यो सम' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।। ४८९ ।।
www.jainelibrary.org