SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ + ।। तपसा निश्चयेन च 'अन्त्येऽनशनादिरूपेण पीडयेत् ।।१५।। वीराणां दुश्चरः पन्था एषोऽनागमगामिनाम् । आदानीयाऽभिधानानां भिन्दतां स्वसमुच्छ्रयम् ।।१६।। शरीरेणैव युध्यन्ते दीक्षापरिणतौ बुधाः । दुर्लभं वैरिणं प्राप्य व्यावृत्ता बाह्ययुद्धतः ।।१७।। सर्वो यदर्थमारम्भः क्रियतेऽनन्तदुःखकृत् । सर्पलालनमङ्गस्य पालनं तस्य वैरिणः ।।१८।। शरीराद्यनुरागस्तु न गतो यस्य तत्त्वतः । २८/२१ तेषामेकाकिभावोऽपि क्रोधादिनियतः स्मृतः ।।१९।। नन्वेवं तं विना साधोः कथं भिक्षाटनाद्यपि । न, तस्य मोहाऽजन्यत्वादसङ्गप्रतिपत्तितः ॥२०॥ ससङ्गप्रतिपत्तिर्हि ममतावासनात्मिका । असङ्गप्रतिपत्तिश्च मुक्तिवाच्छाऽनुरोधिनी ।।२१।। ।।४८८॥ १. हस्तादर्श 'असे' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'मोहजन्य...' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy