________________
4 बजक
पर्याये युज्यते चेत्थं गुणश्रेणिप्रवृद्धितः ।।११।। मासादाविति । इत्थं च संवत्सरादूर्ध्वं सर्वशुक्लाऽऽपत्तौ च मासादौ पर्याये व्यन्त|| रादीनां तेजोलेश्याव्यतिक्रमः प्रज्ञप्त्युक्तो युज्यते गुणश्रेणिप्रवृद्धितः ।।११।।
दिनानि पक्षा मासा वा गण्यन्ते शरदोऽपि च ।। नाऽस्यां गुणाऽविघातस्य गण्यतेऽवसरः पुनः ।।१२।। नैहिकाऽर्थाऽनुरागेण यस्यां पापविषव्ययः । वसन्तनृपचेष्टेव सा दीक्षाऽनर्थकारिणी ॥१३॥
इन्द्रियाणां कषायाणां गृह्यते मुण्डनोत्तरम् । २८/१५
या शिरोमुण्डनव्यङ्ग्या तां सद्दीक्षां प्रचक्षते ।।१४।। दिनानीति श्लोकत्रयमदः कण्ठ्यम् ।।१२-१३-१४।।
विहाय पूर्वसंयोगमस्यामुपशमं व्रजन् ।
मनाक्कायं प्रकर्षेण निश्चयेन च पीडयेत् ।।१५।। विहायेति । अस्यां = सद्दीक्षायां पूर्वसंयोग = मातापित्रादिसंयोगं विहायोपशमं व्रजन् = प्राप्नुवन् कायं स्वदेहं मनाक अध्ययनादिकालेऽविकृष्टेन तपसा, प्रकर्षेण तदुत्तरं विकृष्टेन १. हस्तादर्श '...संयोगे' इत्यशुद्धः पाठः ।
।।४८७ ।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org