________________
44
का
तदुक्तं- "आद्यद्वये त्रिभेदा चरमद्वितये 'द्विभेदे"ति (षोडशक.१०/१०) ।।८।।
सूक्ष्माश्च विरलाश्चैवाऽतिचारा वचनोदये ।
स्थूलाश्चैव धनाश्चैव ततः पूर्वममी पुनः ॥९॥ सूक्ष्माश्चेति । सूक्ष्माश्च = लघवः प्रायशः कादाचित्कत्वात्, विरलाश्चैव सन्तानाऽभावात् अतिचाराः = अपराधाः वचनोदये भवन्ति। ततो वचनोदयात् पूर्वममी अतिचाराः पुनः स्थूलाश्च = 'बादराश्च (एव) घनाश्च = निरन्तराश्च (एव) भवन्ति। तदुक्तं-“चरमाऽऽद्यायां सूक्ष्मा अतिचाराः प्रायशोऽतिविरलाश्च । आद्यत्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव" (षोडशक १०/११) ।।९।। |
ततो निरतिचारेण धर्मक्षान्त्यादिना किल ।
सर्वं संवत्सरादूर्ध्वं शुक्लमेवोपजायते ॥१०॥ तत इति । ततो = वचनोदयात् किल निरतिचारेण धर्मक्षान्त्यादिना, आदिपदेन धर्ममार्दवशुद्धब्रह्मादिग्रहः । सर्वं दशविधमपि क्षान्त्यादि संवत्सरादूर्ध्वं क्रियामलत्यागात् शुक्लमेवोपजायते ।।१०।।
मासादौ व्यन्तरादीनां तेजोलेश्याव्यतिक्रमः । १. हस्तादर्श 'भेति' इति त्रुटितः पाठः । २. हस्तादर्श 'लवः' इति त्रुटितः पाठः । ३. मुद्रितप्रती 'बादारा...' इत्यशुद्धः पाठः ।
२८/१०
||४८६॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org