SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ फेर रु ho de f क्षा द्वा का २८/८ Jain Education International आद्यद्वये क्षमास्तिस्रोऽन्तिमे द्वे चाऽन्तिमद्वये ॥ ८ ॥ प्रीतीति । प्रीति-भक्ति-वचोऽसङ्गैः निमित्तैः चतुर्विधमनुष्ठानम् । प्रीत्यनुष्ठानं, भक्त्यनुष्ठानं, वचनाऽनुष्ठानं, असङ्गाऽनुष्ठानं चेति । तत्र सुन्दरतामात्राऽऽहितरुचिपूर्वकाऽनुष्ठानमाद्यम् । गौरवाऽऽहितरुचिपूर्वकाऽनुष्ठानं द्वितीयम् । सर्वत्राऽऽप्तवचनपुरस्कारप्रवृत्तमनुष्ठानं तृतीयम् । अभ्यासादात्मसाद्भूतं परद्रव्याऽनपेक्षमनुष्ठानं चतुर्थम् । यदाहु:तत्प्रीतिभक्तिवचनाऽसङ्गोपपदं चतुर्विधं गीतम् । तत्त्वाऽभिज्ञैः परमपदसाधनं सर्वमेवैतत् ।। यत्राऽऽदरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ।। गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद् भक्त्यनुष्ठानम् । 11 अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोर्ज्ञातं स्यात्प्रीतिभक्तिगतम् ।। वचनात्मिका प्रवृत्तिः ‘सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ।। यत्त्वभ्यासाऽतिशयात्सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ।। चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनाऽसङ्गाऽनुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ।। ( षोडशक १० / २-८ ) । । आद्यद्वये प्रीतिभक्त्यनुष्ठानलक्षणे तिस्रः क्षमा भवन्ति उपकाराऽपकार - विपाकोत्तराः । अन्तिमद्वये च वचनाऽसङ्गाऽनुष्ठानलक्षणे ( अन्तिमे) द्वे क्षमे भवतो वचन - धर्मोत्तरे १. हस्तादर्शे ‘आद्यद्वयी' इत्यशुद्धः पाठः । २. हस्तादर्शे ' स्रोतिमि' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'सद्' इत्यशुद्धः पाठ: । ४. मुद्रितप्रतौ 'सर्वत्रोचि ...' इत्यशुद्धः पाठः । ...... चिह्नद्वयमध्यवर्ती पाठः हस्तादर्शे नास्ति । For Private & Personal Use Only ।।४८५ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy