SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ फेर रु ho de f क्षा द्वा का २८/८ Jain Education International आद्यद्वये क्षमास्तिस्रोऽन्तिमे द्वे चाऽन्तिमद्वये ॥ ८ ॥ प्रीतीति । प्रीति-भक्ति-वचोऽसङ्गैः निमित्तैः चतुर्विधमनुष्ठानम् । प्रीत्यनुष्ठानं, भक्त्यनुष्ठानं, वचनाऽनुष्ठानं, असङ्गाऽनुष्ठानं चेति । तत्र सुन्दरतामात्राऽऽहितरुचिपूर्वकाऽनुष्ठानमाद्यम् । गौरवाऽऽहितरुचिपूर्वकाऽनुष्ठानं द्वितीयम् । सर्वत्राऽऽप्तवचनपुरस्कारप्रवृत्तमनुष्ठानं तृतीयम् । अभ्यासादात्मसाद्भूतं परद्रव्याऽनपेक्षमनुष्ठानं चतुर्थम् । यदाहु:तत्प्रीतिभक्तिवचनाऽसङ्गोपपदं चतुर्विधं गीतम् । तत्त्वाऽभिज्ञैः परमपदसाधनं सर्वमेवैतत् ।। यत्राऽऽदरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ।। गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद् भक्त्यनुष्ठानम् । 11 अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोर्ज्ञातं स्यात्प्रीतिभक्तिगतम् ।। वचनात्मिका प्रवृत्तिः ‘सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ।। यत्त्वभ्यासाऽतिशयात्सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ।। चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनाऽसङ्गाऽनुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ।। ( षोडशक १० / २-८ ) । । आद्यद्वये प्रीतिभक्त्यनुष्ठानलक्षणे तिस्रः क्षमा भवन्ति उपकाराऽपकार - विपाकोत्तराः । अन्तिमद्वये च वचनाऽसङ्गाऽनुष्ठानलक्षणे ( अन्तिमे) द्वे क्षमे भवतो वचन - धर्मोत्तरे १. हस्तादर्शे ‘आद्यद्वयी' इत्यशुद्धः पाठः । २. हस्तादर्शे ' स्रोतिमि' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'सद्' इत्यशुद्धः पाठ: । ४. मुद्रितप्रतौ 'सर्वत्रोचि ...' इत्यशुद्धः पाठः । ...... चिह्नद्वयमध्यवर्ती पाठः हस्तादर्शे नास्ति । For Private & Personal Use Only ।।४८५ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy