________________
इहेति । इह = दीक्षायां आदौ प्रथमं वचनक्षान्तिः ।
अनन्तरं धर्मक्षान्तिः भवति । अनुष्ठानं च वचनाऽनुष्ठानात् अध्ययनाद्यभिरतिलक्षणादनन्तरं तन्मयीभावेन स्पर्शाऽऽप्तौ सत्यां असङ्गकं स्यात् ।।६।।
उपकाराऽपकाराभ्यां विपाकाद्वचनात्तथा ।
धर्माच्च समये क्षान्तिः पञ्चधा हि प्रकीर्तिता ।।७।। उपकारेति । (१) उपकारेण क्षान्तिः उपकारिप्रोक्तदुर्वचनाद्यपि सहमानस्य ।
(२) अपकारेण क्षान्तिः ‘मम दुर्वचनाद्यसहमानस्याऽयमपकारी भविष्यती'त्याशयेन क्षमां कुर्वतः। (३) विपाकात् चेहपरलोकगताऽनर्थपरम्परालक्षणादालोच्यमानात् शान्तिविपाकक्षान्तिः । (४) तथा वचनात् क्षान्तिरागममेवाऽऽलम्बनीकृत्योपकारित्वादिनैरपेक्ष्येण क्षमां कुर्वतः । (५) धर्मात् च आत्मशुद्धस्वभावलक्षणाज्जायमाना क्षान्तिश्चन्दनस्येव शरीरस्य च्छेद-दाहादिषु सौरभादिस्वधर्मकल्पा परोपकारिणी सहजत्वेनाऽवस्थिताऽविकारिणी। एवं पञ्चधा (हि) क्षान्तिः समये प्रकीर्तिता'। यदुक्तं- "उपकार्यपकारि-विपाक-वचनधर्मोत्तरा मता शान्तिरिति” (षोडशक १०/१०)।।७।।
प्रीति-भक्ति-वचोऽसङ्गरनुष्ठानं चतुर्विधम् ।
२८/७
||४८४||
१. हस्तादर्श 'छेदददाहा...' इत्यधिकतयाऽशुद्धः पाठः । २. हस्तादर्श 'कीर्तितात्' इत्यधिकतयाऽशुद्धः पाठः । ३. हस्तादर्श 'संगर' इत्यशुद्धः त्रुटितव पाठः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org