SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ तत्स्थापना तु दीक्षा तत्त्वेनाऽन्यस्तदुपचारः।।" (षोडशक १२/७-८) ।।४।। नाम्नाऽन्वर्थेन कीर्तिः स्यात् स्थापनाऽऽरोग्यकारिणी । द्रव्येण च व्रतस्थैर्य भावः सत्पददीपनः ।।५।। नाम्नेति । नाम्नाऽन्वर्थेन गुणनिष्पन्नेन कीर्तिः स्यात् । तत्कीर्तनमात्रादेव शब्दाऽर्थप्रतिपत्तेर्विदुषां प्राकृतजनस्य च मनःप्रसादात्, यथा भद्रबाहु-सुधर्मस्वामिप्रभृतीनाम् । स्थापना = आकारविशेषरूपा रजोहरणमुखवस्त्रिकादिधारणद्वारेण भावगर्भया प्रवृत्त्या आरोग्यकारिणी, भावरोगोपमर्दनात् । द्रव्येण च आचारादिश्रुतरूपेण सकलसाधुक्रियारूपेण वा व्रतस्थैर्य प्रतिपन्नविरतिदायँ भवति । भावः = सम्यग्दर्शनादिप्रकर्षरूपः सत्पददीपनः = आचार्यत्वादिवि शिष्टाऽवस्थिताऽवस्थाप्रकाशकः । सामस्त्येनाऽप्येषां प्रकृष्टानां कीर्त्यादिहेतुत्वं सम्भवत्येवेत्यूहनीयम् । तदुक्तं "कीर्त्यारोग्यध्रुवपदसम्प्राप्तेः सूचकानि नियमेन । नामादीन्याचार्या वदन्ति तत्तेषु यतितव्यम् ।।” (षोडशक १२/९) अत्र ध्रुवपदं भावप्रधाननिर्देशात् स्थैर्यवाचकमिति वदन्ति ।।५।। इहाऽऽदौ वचनक्षान्तिधर्मक्षान्तिरनन्तरम् । अनुष्ठानं च वचनानुष्ठानात् स्यादसङ्गकम् ।।६।। १. हस्तादर्श 'विशिष्टावस्थाप्रका...' इति पाठः । २८/६ ॥४८३।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy